________________
व्युत्पत्तिवादः
[ कारके कारणमिति कार्यकारणशरीरे सत्यां समानविषयकप्रत्यक्षसामग्रयां कस्माच्चिदन्यतमाकाङ्क्षाज्ञानात् कस्यामप्यन्यतमाकाङ्क्षाज्ञानाधीनशाब्देच्छायां शाब्दापत्तिरतो नान्यतमत्वे कारणत्वसम्भवः । अथाव्यवहितोत्तरत्वनिबेशे नीलस्य घट इत्यादौ शाब्दापत्तिर्दुर्वारैव । स्वोत्तरजायमानाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधं प्रत्येव प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाज्ञानस्य कारणत्वेनापाद्यमानशाब्दबोधस्य तत्तदाकाङ्क्षाज्ञानानुत्तरत्वेन तत्तकार्य्यतावच्छेदकैरनाक्रान्तत्वेन तत्तत्कारणविरहस्याकिञ्चित्करत्वात् । न चाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्याप्रसिद्धत्वादेव नापत्तिः । नीलो घट इत्यादौ तत्तदाकाङ्क्षाज्ञानोत्तरत्वविशिष्टाभेदबोधस्य सत्त्वेऽपि शुद्धनीलत्वावच्छिन्नाभेदबुद्धेस्तत्राभावेन न तत्र प्रसिद्धिरिति वाच्यम् । समान्यस्य विशेषेएव सत्त्वेनापाद्यमानतावच्छेदकधर्मस्याभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वस्य तत्रैव प्रसिद्धेः । न च तर्हि तच्छाब्दबोधकारणीभूताकाङ्क्षाज्ञानाभावादेव नापत्तिरिति वाच्यम् । आपाद्यमानतावच्छेदकधर्मस्य तत्तदाकाङ्क्षाज्ञानकार्यतानवच्छेदकत्वमित्यस्योक्तत्वात् । ___ अत्रोच्यते--सामान्यधर्मावच्छिन्ने कार्ये जननीये विशेषधर्मावच्छिन्नकार्योत्पादकसामग्रया अपेक्षा । यथा शुक्लपटत्वावच्छिन्नं प्रति शुक्लतन्तोः, कृष्णपटत्वावच्छिन्नं प्रति कृष्णतन्तोः कारणत्वे निर्णीते पटत्वावच्छिन्नकार्यस्य तत्तच्छुक्लकृष्णतन्तूनामेवापेक्षा न तु कारणान्तरस्य । एवं सति सामान्यनीलत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताकशाब्दबुद्धित्वावच्छिन्ने विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरत्वविशिष्टतादृशधर्मावच्छिन्नकार्योत्पादकसामग्रयास्तत्तदाकाङ्क्षाज्ञानादिघटिताया अपेक्षणात् । प्रकृते नीलस्य घट इत्यादौ तासां तत्तदाकाङ्क्षाज्ञानघटितानां सामग्रीणां कस्या अप्यभावेन नापत्तिः ।
ननु कारणकूट एव सामग्री । तथा च सामान्यधर्मावच्छिन्ने कार्ये