________________
प्रथमा ]
जयाऽलङ्कृतः
४१
जननीये विशेषधविच्छिन्नस्य कार्य्यस्य कारणसमुदाय अपेक्ष्यत इत्येव फलति । तच्च न युक्तम् । नीलो घट इत्यादौ सामान्यधर्मावच्छिन्नकाय॑स्य सत्त्वेऽपि विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरविशिष्टतादृशधर्मावच्छिन्नकारणकटस्य सकलतत्तदाकाङ्क्षाज्ञानघटितस्याभावेन कुत्राप्यभेदबोधानापत्तेरिति चेत्-न। विशेषधविच्छिन्नकार्योत्पत्तिप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नस्यापेक्षेति कथनेनादोषात् । एकैकाकाङ्क्षाज्ञानघटितसमुदायत्वस्यैव तथात्वेन तदवच्छिन्नस्य नीलो घट इत्यादौ सर्वत्र सत्त्वात् अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वस्याननुगतत्वेऽपि कार्योत्पत्तिप्रयोजकतावच्छेदकत्वेनानुगमसम्भवात् । अभेदसम्बन्धेन नीलविशिष्टघटत्वावच्छिन्नशाब्दबोधं प्रति तादृशशाब्दबुद्धित्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणतावदाकाङ्क्षाज्ञानं कारणमिति प्रकृतापत्तिवारणायाङ्गीक्रियत इति नापत्तिरिति परे।
__ अत्र केचित् विशेष्यवाचकपदे प्रथमान्तत्वादिकमनिवेश्यैव प्रथमान्तनीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणम् । एवं द्वितीयान्तनीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबोधं प्रति द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेण कार्यकारणभावे नीलस्य घट इत्यादावापाद्यमानशाब्दस्य षष्ठयन्तनीलपदसमभिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कार्य्यतावच्छेदकषष्ठ्यन्तनीलपदसमभिव्याहृतघटपदव्यवहितोत्तरतादृशशाब्दबुद्धित्वाकान्ततया तादशाकाङ्क्षाज्ञानाभावेन नापत्तिरित्याहुः ।
तन्न । नीलस्य घट: नीलो घट इति समूहालम्बनात्मकाकाङ्क्षाज्ञानादिष्टस्य नीलघटाभेदान्वयस्यानापत्तेस्तस्य स्वकीयकार्यतावच्छेदकाक्रान्तत्वेन षष्ठ्यन्तनीलपदसमभिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्याभावात्।
परे तु अव्यवहितोत्तरत्वादिघटितान् प्रथमान्तत्वादिघटितान् कार्य