________________
४२ व्युत्पत्तिवादः
[ कारके - यत्तु समासव्याससाधारणं विशेषणपदस्य विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशान्वयबोधौपयिकाकाङ्क्षा विशेष्यवाचकपदनिष्ठविशेषणवाचकपदाप्रकृतिकविभक्यप्रकृतित्वं च न तथा नीलघटमानयेत्यादावसंभवादिति तदसत्। विशेष्यवाचकपदाप्रकृतिकत्वस्य तादृशपदानुत्तरत्वस्य तदुत्तरत्वेनाप्रतिसन्धीयमानत्वरूपस्य वा नीलो घट इत्यादौ
कारणभावान् षट्संख्याकान् विधाय तत्तदाकाङ्क्षाज्ञानानुत्तरतादृशशाब्दबुद्धित्वावच्छिन्नं प्रति सप्तम्यन्तनीलपदसमभिव्याहृतसप्तम्यन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कारणत्वमित्यभ्युपगमेन नीलस्य घट इत्यादौ पापाद्यमानस्यानुत्तरत्वादिघटितकार्य्यतावच्छेदकाक्रान्तत्वेन तत्कारणाभावेनापत्त्यभावादित्याहुः ।
तदपि न । नीलो घटाः नीलस्य घट इति समूहालम्बनाकाङ्क्षाज्ञानात् नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितात् नीलघटाभेदान्वयबोधापत्तेस्तादृशापाद्यमानस्य तत्तदाकाङ्क्षाज्ञानानुत्तरत्वादिघटितकार्य्यतावच्छेदकधर्मानाक्रान्ततया सप्तम्यन्तत्वघटितकारणविरहस्याकिञ्चित्करत्वादिति दिक् । . नानाकाङ्क्षाज्ञानानां कारणत्वापेक्षया लाघवादेकस्यैवाकाङ्क्षाज्ञानस्य कारणत्वमस्त्विति नानेककार्यकारणभावो नाप्यव्यवहितोत्तरत्वादिनि. वेश इत्याह-यत्त्वित्यादिना। ___ ननु विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेषणवाचकपदे विशेषणवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेष्यवाचकपदे । अनयोरेव विनिगमनाविरहेण कारणत्वापत्तावनेककारणत्वं कारणाव्यवहितोत्तरत्वनिवेशोऽप्यावश्यक एवेत्यत आह-विशेष्यवाचकेत्यादि । सत्त्वादिति । प्रत्युच्चारणं शब्दस्य भेदेन नीलपदोत्तरत्वादिविशिष्टविभक्तेर्घटपदोत्तरस्वादिविभक्तिभिन्नत्वमिति भावः ।