________________
.. ४३
प्रथमा ]
जयाऽलङ्कृतः नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहृतविभक्तिभिन्नतया सत्त्वात् । अथ विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इति चेतर्हि विभक्तित्वा
विभक्तीनां भेदेऽपि तन्निष्टप्रथमात्वादीनामभेदात्तद्घटितस्यैवाकाङ्क्षात्वमुच्यते--अथेत्यादिना। विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकेत्यादि । नीलो घट: नीलघट इत्यादौ विशेष्यवाचकं पदं घटपदं तदुत्तरा सुविभक्तिः तदवृत्तिविभक्तिविभाजको द्वितीयात्वादिधर्मस्तद्वत्यो द्वितीयादिविभक्तयस्तद्राहित्यस्योभयत्र नीलादौ सत्त्वेन साकाङ्क्षत्वमुपपन्नम् । अथ विशेष्यवाचकं घटपदन्तदुत्तरत्वं सर्वासां विभक्तीनां घट घटेन घटायेत्यादौ तन्निरूपितवृत्तित्वस्यैव सर्वेषां विभाजकद्वितीयात्वादीनां सत्त्वेन विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्माप्रसिद्धिः । विशेष्यवाचकपदोत्तरयत्किञ्चिद्विभक्त्यवृत्तित्वनिवेशे नीलो घट इत्यादावपि नाकाङ्क्षा स्यात् । प्रथमात्वस्यापि नीलं घटमित्यादौ विशेष्यवाचकघटपदोत्तरद्वितीयाविभक्त्यवृत्तित्वेन तद्वत्सुविभक्तिप्रकृतित्वस्यैव नीलपदे सत्त्वात्। विशेष्यवाचकपदस्य घटपदत्वादिना प्रवेशेऽप्युक्तदोषद्वयस्यानिस्तार एव । तद्व्यक्तित्वादिना प्रवेशे तूक्तदोषद्वयनिस्तारेऽपि नीलो घट इत्याद्यानुपूर्वीमद्वाक्येऽपि प्रत्युच्चारणं घटशब्दस्य भेदेन तत्तद्व्यक्तिप्रवेशेनाकाङ्क्षाया अप्यानन्त्यापत्त्या 'वृश्चिकभिया पलायमानस्य तरक्षुमुखे निपात एवे'ति चेत्-न । उक्तस्थले नीलपदे घटपदवत्वमेवाकाङ्क्षति स्वीकारात् । घटपदवत्ता च स्वाभाववत्त्वसम्बन्धेन । साभावश्च स्वोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकः । तथा च नाप्रसिद्धिन वाऽननुगम । यद्घटपदवत्त्वं विवक्षितन्तद्घटपदव्यक्त्युत्तरविभक्तेरेव सम्बन्धघटकतया प्रवेशेन व्यक्त्यन्तरघटपदमादाय दोषदानस्यासम्भवात् ।
विभक्तित्वादिकमजानत इति । येन विभक्तित्वं न ज्ञायते तस्यापि