________________
४४ व्युत्पत्तिवादः
[ कारके दिकमजानतः पुरुषस्य तादृशधर्मज्ञानासंभवाच्छाब्दबोधानुपपत्तिः । नीलो घट इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां ताशबोधस्यानुदयात् । नीलस्य घट इत्यादावपि षष्ठयादेः सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभ
नीलो घट इत्यादितः शाब्दबोधो भवति । विभक्तित्वघटिताया आकाङ्क्षायाः स्वीकारे विभक्तित्वज्ञानाभावेन तद्घटिताकाङ्क्षाया अपि ज्ञानाभावेन तस्य तद्वाक्याच्छाब्दबोधो न स्यादित्यर्थः । न च स्वोत्तरावृत्तिधर्मवदित्याद्यवोच्यतां विभक्तिविभाजकत्वन्न निवेश्यतां तथा च विभक्तित्वज्ञानमन्तराऽपि शाब्दबोधः स्यादिति वाच्यं, नीलो घट इत्यादौ नीलपदोत्तरविभक्तिगततद्व्यक्तित्वस्य घटपदोत्तरविभक्त्यवृत्तित्वेनाकाङ्क्षानापत्तेः ।
ननु विशेष्यवाचकपदोत्तरावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मेत्याघेवास्तु तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतानवच्छेदकत्वानोक्तदोषः । स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्ट एव धर्मो निवेश्यताम्वा। तद्व्यक्तित्वञ्च भेदविशिष्टभिन्नमेवेति चेत्-माने । नीलो घट: नीलघट इतिवाक्यगतश्रावणप्रत्यक्षविषयतावच्छेदकधर्मातिरिक्तस्य तद्वाक्यगतधर्मस्य शाब्दबोधात् प्रागज्ञानेऽपि शाब्दबोधस्येष्टस्यानापत्तेः । नीलो घट इत्यत्र घटपदोत्तरविसर्गावृत्तरोत्वस्य नीलपदोत्तरविभक्तिवृत्तित्वेन निराकाङ्क्षत्वापत्तेश्च । एतर्थमेव विभक्तित्वादिकेत्यत्रादिपदोपादानमिति विक् ।
नन्वाकाङ्क्षव कारणं न तज्ज्ञानमिति विभक्तित्वादिधाज्ञानेऽपि तस्या वस्तुतः सत्त्वेनानुपपत्त्यभाव इत्मताह-घट इत्यादावपीत्यादि । स्वरूपत इति वस्तुसत इत्यर्थः । अज्ञातस्यापीति यावत् विरुद्धविभक्तिराहित्यस्येति । निरुक्ताकाङ्क्षाया इत्यर्थः ।