SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ क्तिराहित्यस्याप्रयोजकत्वात् । अमीलो घट: नीलघट इत्यादिद्विविधबोधसाधारणं स्वोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वादिरूपस्वाव्यवहितोत्तरत्वसम्बन्धेन नीलादिपदवत्स्वन्तघटादिपदत्वमेव तथास्त्विति चेत् न । नीलघटरूपमित्यादिवाक्यसाधारण्यानुरोधेनान्यदृश्या अपि आकाङ्क्षायाः समासस्थले उपगन्तव्यतया उपदर्शितसमासव्याससाधारणानुगताकाङ्क्षानुसर स्वोत्तरसुपद भिन्नपदानुत्तरत्वेत्यादि । अकं भावः । नीलो घट: नीलघट उभयत्र स्वो नरत्वस्वोत्तरसुपदभिन्नपदानुत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टस्वन्तघटप दत्वमेवाकाङ्क्षाऽस्तु । स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वं नीलपदाव्यवहितोत्तरघटपदत्वमित्याकाङ्क्षाद्वयोपगमो निरर्थक इति । नीलघटरूपमिति । अत्र कर्मधारयपूर्वपदकषष्ठीतत्पुरुषः । षष्ठीतत्पुरुषोत्तरपदकर्मधारयो वा । आधे नीलस्य घटान्वयित्वे एकदेशान्वयापत्तिः । समासे वृत्त्यभावेन घटस्य घटीये लक्षणां विधाय रूपे अभेदान्वयस्यैव वक्तव्यत्वात् । द्वितीये रूपस्यैव विशेष्यवाचकपदत्वन्न घटरूपसमुदायस्य तत्र वृत्त्यभावात् । तथा च नीलोत्तरसुभिन्नपदं घटपदन्तदुत्तरत्वस्यैव रूपपदे सत्त्वेनाना काङ्क्षत्वापत्तेस्तदर्थमन्यादृश्या अप्याकाङ्क्षाया वक्तव्यत्वेन कार्यकारणभावबाहुल्यादुक्तस्थलद्वये एकाकाङ्क्षायास्सद्भावस्याकिञ्चित्करत्वात् । दमुफ्लक्षणम् । नीलो घटौ नीला घटाः इत्यादि सर्वविभक्त्यन्तवाक्यानं नीलघटौ नीलघटा इत्यादिसमासानाञ्चैकविधाका झाया वक्तुमशक यत्वात् । सर्वत्र दोषस्य सत्त्वात् स्वोत्तरसुप्पदभिन्नपदानत्तरत्वस्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टसुबन्तघटपदत्वरूपाकाङक्षायां तात्पर्य्यकलने उक्तस्थलेषु दोषाभावेऽपि नीलस्य घट: नीलौ घट इत्यादीनामपि साकाङ्क्षत्वापत्तेस्तस्मात् स्वोत्तरसुपः सुत्वादिनैव प्रवेश्य स्वोत्तरसुपदभिन्नपानुत्तरत्वस्वोत्तरत्वोनयसम्बन्धेन नीलपदविशिष्टस्वन्त
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy