________________
व्युत्पत्तिवादः
[ कारके
णस्याप्रयोजकत्वादिति । अथ नीलं घटमानयेत्यादौ नीलादेर्घटादावन्वयोपगमे नीलादिपदोत्तरविभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति चेत्-न कुत्रापि । विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । अभेद एव वा विशेषणविभक्तेरर्थः । अभेदस्य संसर्गमर्यादया भानं तु समासस्थल एव । तत्र लुप्तविभक्त्यनुसंधानं विनापि शाब्दबुद्धेरा
४६
घटपदत्वमितिरीत्या नानाविधाया एव तस्या वक्तव्यत्वात् । घटो नीलः नीलोऽस्ति घट इत्यादावपि भिन्नैवाकाङ्क्षा ।
नीलं घटमानयेत्यत्र नीलघटयोरभेदान्वयबोधे शाब्दत्वस्य सर्वानुभवसिद्धतया न नीलान्वितकर्म्मत्वस्यानयनक्रियायामन्वयः । घटेऽन्वितस्य नीलस्य कर्मत्वेऽप्यन्वये द्विधा भानप्रसङ्गात् प्रकृत्यर्थान्वितस्यैव प्रत्ययार्थस्य भाननियमात् । नीलानंन्वितकर्मत्वस्य क्रियायामन्वयासम्भवात् । नाऽपि नीले कर्मत्वस्यान्वयः, कारकाणां क्रियायामन्वयनियमात् । प्रकृत्यर्थं प्रति प्रत्ययार्थस्य विशेष्यत्वनियमाच्च । नीलान्वितकर्मत्वस्य च क्रियायामन्वयः नीलघटयोरभेदभानं मानसं नीलनिष्ठ कर्मतानिरूपकमानयनं घटरच नीलाभिन्न इत्यपि न । अभेदांशेऽनुभवसिद्धस्य शाब्दत्वस्यापलपितुमशक्यत्वात् । इत्थञ्च कर्मत्वस्य कुत्रान्वय इति प्रश्नः । न कुत्रापीति । कर्मत्वस्य न भानम्। अभेदाज्वग्रबोधप्रयोजकसमानविभक्तिकत्वरूपाकाङ्क्षासम्पादकतयैव साधुत्वार्थत्वम् । तदर्थस्याभाने निरर्थकत्वमेवेत्यत आह- प्रभेद एवेति । ननु तर्ह्यभेदस्य प्रातिपदिकार्थे संसर्गतया भानमिति पूर्वग्रन्थविरोधोऽत ग्राहसमास्थल इति । ननु समासेऽपि विभक्तेरनुसन्धानेन तदर्थ एवाभेद इत्यत ग्रह - तत्र लुप्तविभक्तीत्यादि । प्रभेदस्य व भेदाभावोऽर्थस्तदर्थैकदेशभेदे नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च मीलनिष्ठप्रतियोगितानिरूपकभेदप्रतियोगिकाभाव