________________
नुभविकत्वादित्यपि वदन्ति । अथैवन्मते अभेदो यदि भेदत्वावच्छिन्नाभावस्तदाऽप्रसिद्धिः, यदि च भेदप्रतियोगिकोऽभावस्तदा
विशिष्टो घट इत्यर्थः । एतन्मत इति । अभेदस्य विभक्त्यर्थत्वमत इत्यर्थः । तदाऽप्रसिद्धिरिति। यस्य...कस्प चिद्भेदस्य सर्वत्रैव सत्त्वादभावस्य प्रतियोगितावच्छेदकावच्छिन्नेन सह विरोधात् भेदत्वावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धिरित्यर्थः।
ननु तादृशाभावस्याप्रसिद्धत्वे तत्प्रसिद्धेरप्यप्रसिद्धत्वे तत्प्रसिद्धयभावोऽप्यप्रसिद्ध इति तदाऽप्रसिद्धिरित्यस्य कोऽर्थः ? अत्रोच्यते । स्यादयं दोषो यदि अप्रसिद्धयेकदेशप्रसिद्धौ भेदत्वावच्छिन्नाभावान्वयः स्यात् । स एव न किन्तु घटादौ भेदस्य भेदे भेदत्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धस्यात्यन्ताभावेऽप्रसिद्धिरित्यर्थः । भेदनिष्ठप्रकारतादौ प्रसिद्धस्य भेदत्वावच्छिनत्वस्यात्यन्ताभावीयप्रतियोगितायामप्रसिद्धिरित्यर्थो वेति बोद्धयम् ।
ननु भेदत्वेन घाभावस्य संय्योगेन भेदाभावस्य भेदघटोभयाभावस्य च भेदत्वावच्छिन्नप्रतियोगिताकतया तेषाञ्च प्रसिद्धतया कथं भेदत्वावच्छिन्नप्रतियोगिताकोऽभावोऽप्रसिद्ध इति चेत्-न। भेदनिष्ठस्वरूपसम्बन्धावच्छिन्नभेदत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिताकोऽभावोप्रसिद्ध इति तात्पर्य्यात् । आद्य प्रतियोगितायां भेदनिष्ठत्वाभावात् , द्वितीये तस्यां स्वरूपसम्बन्धावच्छिन्नत्वाभावात् , तृतीयें तस्यां भेदत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यताया अभावात्, तेषामभावानां प्रकृताभावपदेनाग्रहणात् । क्नु भेदत्वेन भेदपटौ न स्त इति प्रतीतिविषयीभूतोऽभावस्तादृशः प्रतियोगिताया भेदवृत्तित्वात्। एवं स्वरूपसंय्योगोभयसम्बन्धेन भेदत्वेन भेदाभावोऽपि तथा प्रतियोगितायाः स्वरूपसम्बन्धावच्छिन्नत्वात् किञ्च भेदघटोभयाभावीयप्रतियोगितावच्छेदकतापि प्रत्येकघटत्वादिपर्याप्तव न तु भेदत्वघटत्वादित्रितयपर्याप्ता मानाभावात् । घटो नास्ति भेदो नास्तीति