SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४८ व्युत्पत्तिवादः [ कारके प्रतीतिविषयीभूतप्रतियोगितावच्छेदकतायाःघटत्वादिप्रत्येकपर्याप्ताया एवोभयाभावीयप्रतियोगितानिरूपितत्वेनापि भानसम्भात् तस्य च प्रसिद्धत्वादिति चेत् न । उभयादिपर्याप्ताया एकस्या अभावे घटसत्त्वे घटो नास्ति भेदो नास्तीति समूहालम्बनप्रतीतिर्न भवति । घटभेदौ न स्त इति प्रतीतिश्च भवत्यतो निरुक्तसमूहालम्बनप्रतीतिविषयाभावविलक्षणोयमभयाभावो वैलक्षण्यञ्चैतदेव यदुभयाभावीयप्रतियोगितावच्छेदकतायाः घटत्वाद्युभयपर्याप्तत्वमित्यमेषात् । भेदत्वविशिष्टाभावस्यैव विवक्षितत्वात् । वैशिष्ट्यञ्च स्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धपाप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिताकत्वस्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावन्निरूपकतानिरूपितनिरूप्यतावत्त्वोभयसम्बन्धेन । भेदत्वेन भेदघटोभयाभावीयप्रतियोगितावच्छेदकताया भेदत्वपर्याप्तत्वेऽपि तदभावीयनिरूपकतावच्छेदकताया भेदत्वाप-प्नत्वात्। द्वितीयेऽभावे च संसर्गतात्मकप्रतियोगितावच्छेदकतायाः स्वरूपसंय्योगोभयपर्याप्तत्वेन स्वरूपसम्बन्धापर्याप्तत्वात् । ननु घटत्वभेदत्वोभयत्वत्रितयपर्याप्ताप्यवच्छेदकता भेदत्वेऽपि पर्याप्तैव न ह्यवयवापर्याप्तस्य समुदाये पर्याप्तिरस्तीत्युक्तेस्तथा चोभयाभावीयापि प्रतियोगिता भेदत्वपर्याप्तावच्छेदकताकानिरूपकतावच्छेदकताऽप्युक्तरीत्या भेदत्वपर्याप्तेति कथमुभयाभावस्याग्रहणमिति चेत्-न । त्रितयपर्याप्तायास्तस्याः प्रत्येकपर्याप्तत्वेऽपि पर्याप्तिरेकैव तदनियोगितावच्छेदकन्त्रितयगतन्त्रित्वमेव समनियतत्वात् न तु भेदत्वगतमेकत्वन्तस्यानुयोगितापेक्षयान्यूनवृत्तित्वात् । तथा च भेदत्वगतैकत्वविशिष्टोऽभाव एवाप्रसिद्धत्वेन विवक्षित इत्यदोषात् । वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावनिरूपकताकत्वस्वावच्छिनानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावती या स्वरूपसम्बन्धत्वगतैकत्वावच्छिन्नानुयोगिताकपर्याप्तियोग्यवच्छेदकतानिरूपितावच्छेद्यतावती प्रतियोगिता तनिरूपकत्वोभयसम्बन्धेनोभयाभावीयप्रति
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy