________________
४६
प्रथमा ]
जयाऽलङ्कृतः योगिता च न भेदत्वगतैकत्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगिभूतावच्छेदकताकाऽपि तु त्रित्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगिभूतावच्छेदकताकेति तस्य प्रसिद्धत्वेऽपि विविक्षताभावस्याप्रसिद्धत्वात्।
ननु द्वित्वादिकं यथा द्वित्वत्वादिनैव व्यासज्यवृत्ति न तु वस्तुत्वादिनापि तथोभयाभावस्य प्रतियोगितावच्छेदकता निरूपकतावच्छेदकता प्रतियोगितानिरूपितसंसर्गतात्मकावच्छेदकता चावच्छेदकतात्वेनैव व्यासज्यवृत्तिन तु वस्तुत्वादिनाऽपि । तथा च वस्तुत्वावच्छिन्नप्रकृतावच्छेदकतानिष्ठप्रतियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकं भेदत्वगतैकत्वमेव वस्तुत्वावच्छिन्ना या निरूपकतावच्छेदकतानिष्ठप्रतियोगिता तन्निरूपकपर्याप्त्यनुयोगितावच्छेदकमपि भेदत्वगतमेकत्वं तथा वस्तुत्वावच्छिन्ना या प्रतियोगितानिरूपितसंसर्गतात्मकावच्छेदकतानिष्ठाप्रतियोगिता तन्निरूपकपर्याप्त्यनुयोगितावच्छेदकमपि स्वरूपसम्बन्धत्वगतमेकत्वम् । तथा च भेदत्वगतैकत्वविशिष्टाभावोऽपि स एवोभयाभावो वस्तुत्वावच्छिन्नप्रतियोगितामादायेति स एव दोष इति वेत्-न । स्वनिरूपितप्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकत्वस्वनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धेन भेदत्वगतैकत्ववृत्तिर्योऽभावस्तस्यैवाभिप्रेतत्वेनादोषात् । वस्तुत्वावच्छिन्नप्रतियोगितायाः संसर्गाघटकत्वात् । संसर्गघटकाभावीयप्रतियोगिता च स्वनिरूपितसंसर्गतात्मकावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वरूपसम्बन्धत्वगतैकत्ववृत्तिरेवेति न स्वरूपसंयोगोभयसम्बन्धेन भेदाभावमादायापि दोषः ।
ननु भेदत्वघटत्वोभयत्वैतत्रितयगताप्यवच्छेदकताभेदत्ववृत्तित्वविशिप्टावच्छेदकतात्वेन भेदत्व एव सकलब्राह्मणवृत्त्यपि ब्राह्मणत्वं चैत्रवृत्तित्वेन चैत्र एवेतिवत्तथा चावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकमपि भेदत्वगतैकत्वमेवेति स दोषस्तदवस्थ एव। यद्यपि भेदत्ववृत्तित्वावच्छेदकतात्वोभयधर्मावच्छिन्ना पर्याप्तीया प्रतियोगिता