SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके पदत्वमेवासमस्तनीलघटपदाद्याकाङ्क्षा । समासस्थले च घटपदाद्यव्यवहितपूर्ववर्तिनीलादिपदत्वं नीलादिपदाव्यवहितोत्तरवर्तिघटादिपदत्वं वा आकाङ्क्षा । उक्तस्थले च तादृश्या एकस्या अप्या बोधत्वावच्छिन्नकार्यतानिरूपितकारणताया एवैकत्वोपस्थित्यादेः सत्त्वेनैकत्वत्वावच्छिन्नविषयत्वाघटितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दत्वावच्छिन्नकाऱ्यांपादने एकत्वोपस्थितेरनपेक्षणेनापत्तिसम्भवः । लापाद्यतावच्छेदकधर्मस्य निरुक्तशाब्दबोधे अधिकं प्रविष्टन्न तू तानिरितिरीत्या सत्त्वेऽपि तद्धविच्छिन्नकार्यतानिरूपितकारणतायाः कुत्राप्यभावेनापादकासम्भव एवेति वाच्यम् । नीलपदाव्यवहितोत्तरघटपदत्वरूपमूलोक्ताकाङ्क्षाया एव तत्कारणीभूतायास्तत्रापादकत्वसम्भवादिति वाच्यम् । पापाद्यतावच्छेदकधर्मं प्रत्येकत्वादिविषयताघटितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वादेर्व्याप्यतया व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षिततया तस्याश्च घटपदाव्यवहितोत्तरसुपदत्वरूपानुपूर्वीरूपाकाङ्क्षाज्ञानादिघटिततया निविभक्तिकनीलघटेतिसमुदायादौ तदभावेनापत्त्यभाव इति दिन । एक यादृशयादृशानुपूर्व्यवच्छिन्ने यादृशयादृशानुपूर्व्यवच्छिन्नसमभिव्याहृतत्वज्ञानाद्यादृशः शाब्दबोधो जायते तादृशतादृशानुपूर्व्यवच्छिन्नविषयतानिरूपिततादृशानुपूर्व्यवच्छिन्नसमभिव्याहृतत्वविषयतानिरूपकज्ञानं तादृशशाब्दबोधे कारणमिति मिष्कर्मः । उक्तस्थले चेति । नीलस्य घट इत्यादिस्थले चेत्यर्थः । तादृश्याः प्रथमान्तीनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाया इत्यर्थः । ननु प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानानीलो घट इति वाक्याज्जायमानाभेदान्वयबोधे द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वादिरूपाकाङ्क्षाया अभावात् तादृशाकाङ्क्षा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy