________________
प्रथमा ]
जयाऽलङ्कृतः
नीलो घटो घटो नील इत्याद्यानुपूर्व्यवच्छिन्नविषयतानिरूपकज्ञानस्यैव शाब्दबोधजनकत्वम । यामि नीलश्चैत्रस्य घट इत्यादिवाक्यं प्रयुज्यते तत्रापि तथानुपूर्वीमद्वाक्यं कल्पयित्वैव शाब्दबोधः करणीयः । अत एवासत्तिरप्युपपद्यते । अन्यथा नीलोपस्थितिघटोपस्थित्योश्चैत्रोपस्थित्या व्यवधानादव्यवधानघटिताय स्तस्या अभावेन शाब्दबोधानापत्तिः । नीलपट इत्यादिसमासस्थले नीलो घट इति समुदायगतानपूा अभावेन व्यासस्थलीया. काङ्क्षाया अभावेन शाब्दबोधानापत्त्या तत्स्थलीयानुपूर्वीज्ञानस्यापि पृथक कारणत्वं वाच्यम् । एवमेव नीलो घटौ, नीला घटा, नीलं घट, नीलान् घटानित्यादिसमुदायगतानुपूर्वीज्ञानानामपि तत्तदानुपूर्वीप्रकारकत्वेनैव कारणत्वं वक्तव्यमेकरूपण कारणताया वक्तुमशक्यत्वात् । ___ कानुनीलघटः, नीलघटौ, नीलघटा इत्यादिविभक्त्यन्तसमुदायपर्याप्तानुपूर्वीणां कारणतावच्छेदकत्वे समासस्थलेऽपि विभक्तीनां सप्तत्वेन तदन्तनिष्ठानुपूर्वीणामपि सप्तानां कारणतावच्छेदकत्वापेक्षया नीलघटत्वरूपानुपूर्वीप्रकारकज्ञान नैव सप्तानां कारणत्वे लाघवात्तथैव वक्तुं युक्तमत एव मूलेऽपि नीलपदाव्यवहितोत्तरघटपदत्वं घटपदाव्यवहितपूर्वनीलपदत्वमित्येवाकाङ्क्षासप्तविभक्त्यन्तनीलघटसमासस्थले उक्तमिति चेत्सत्यम् । तस्यापि विभक्त्यन्तानुपूर्वीणां प्रवेश एव तात्पर्य कथमन्यथा निविभक्तिकनीलघटे तिसमुदायात् शाब्दबोधाभावः । यथाश्रुतग्रन्थरीत्या नीलपदाव्यवहितोत्तर घटपदत्वादेस्तत्र सत्त्वेन शाब्दबोधापत्तेर्दुरित्वात् । ___ नबुकीदृशस्वत्र शाब्दबोध आपाद्यते । बतावन्नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताक इति वक्तुं शक्यते । तादृशशाब्दबोधस्याप्रसिद्धेस्तत्कारणरूपानादकस्याप्यप्रसिद्धः। न नीलो घट इत्यादौ नीलघट इत्यादौ च तादृशशाब्दबोधप्रसिद्धिरिति वाच्यं, तत्रैकत्वस्यापि विशेषणतया भानेन तन्नियामकविभक्तिपदजन्यैकत्वोपस्थितिघटपदाव्यवहितोत्तरसुपदत्वरूपानुपूर्वीज्ञानादेरपि कारणत्वेन तदभावेनापत्त्यभावादिति चेत् पत्नोच्यते । नीलो घटो तीलघट इत्यादावेकत्वत्वावच्छिन्नविषयताघटितशाब्द