________________
३२.
व्युत्पत्तिवादः
[ कारके महत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । उद्देश्यतावच्छेदकभेदेनैव उद्देश्यताभेदात् । तत्र एकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक् । स्वप्रकृतिकत्वं च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम् । तेन दधि सुन्दरमित्यादौ विशेष्यपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। तत्र विभक्तरनुसन्धानं विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वम् । तेन इदं दधीत्यादौ विशेषणपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। अथ नीलस्य घट इत्यादावपि पदार्थोपस्थित्यादिकारणसमवधानसंभवात् कथन्न नीलघटाद्योरभेदान्वयबोधः । सामग्र्या कार्यजनने उक्तनियमभङ्गप्रसङ्गरूपबाधकस्याकिञ्चित्करत्वादिति चेत् तथाविधान्वयबोधौपयिकाकाङ्क्षाविरहात्। तथा हि तादृशान्वयबोधे प्रथमाविभक्त्त्यन्तघटादिपदसमभिव्याहृतप्रथमान्तनीलादि
ननु विंशत्याद्या इत्यादि तु प्रसङ्गादागतम् । प्रकृतन्तु स्वप्रकृतिकविभक्तिसजातीयेत्यादौ स्वप्रकृतिकत्वन्तदाह-स्वप्रकृतिकत्वञ्चेति । प्रतिसन्धीयमानत्वं ज्ञायमानत्वमित्यर्थः । तादृशेति । स्वप्रकृतिकेत्यर्थः । तथाविधेति। स्वप्रकृतिकविभक्तिसजातीयेत्यर्थः । उक्तनियमभङ्गति-- समानविभक्तिकपदोपस्थापितयोरेवाभेदान्वय इति नियमेत्यर्थः । तथाविधेति । अभेदान्वयेत्यर्थः । बोधौपयिकेति । बोधजनकेत्यर्थः । सा चाकाङ्क्षा कीदृशीत्याकाङ्क्षायामाह-तथा हीति । तादृशान्वयबोध इति । अभेदसम्बन्धावच्छिन्ननीलत्वाद्यवच्छिन्नप्रकारतानिरूपितघटत्वाधवच्छिन्नविशेष्यताकशाब्दबोध इत्यर्थः । प्रथमा विभक्त्यन्तेत्यादि । इ सन्च वस्तुस्थितिमात्रन्न तु प्रथमात्वविभक्तित्वादिभिविभक्तेराकाङ्क्षाशर रे प्रवेशः, उक्तधर्माज्ञानेऽपि घट इत्यादेरानुपूर्वीप्रकारेणैवाकाङ्क्षायां प्रवेशः । तथा च