________________
प्रथमा ]
जयाऽलङ्कृतः ।
विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्यैकवचनान्ततोपपत्तिः। प्रत्यक्षानुमाने यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाविवक्षितत्वात्प्रमाणपदस्य बहुवचनान्ततेति । एवं पितरो देवता इत्यत्रापि पितृपिता
विषयतारूपा शक्ति स्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितेश्वरीयेच्छीयविशेप्यताव त्वसम्बन्धेन व्यक्तौ वर्त्तते स्वनिष्ठविशेष्यतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नप्रकारतावत्त्वसम्बन्धेन जातौ वर्त्तते स्वनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गघटकावच्छेदकतावच्छेदकत्वसम्बन्धेन समवायादौ वर्तत इति त्रितयनिष्ठत्वमपि तस्या उपपद्यते । एतेनेश्वरेच्छायाः शक्तित्वे ईश्वरेच्छायाः समूहालम्बनात्मिकाया एकस्या एव सत्त्वेन शक्तशक्यतावच्छेदकभेदेनापि शक्तिभेदानापत्तेः । तद्विषयतायास्तत्त्वे बोधादेरपि घटादिप शक्यत्वापत्तेस्तस्यापि तदिच्छाविषयत्वात्तादृश विषयशानामे कत्त्वाभावाच्छ तावप्येकत्वाभाव इत्यादिवदन्तोऽपास्ताः ।
प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्येत्यादि । प्रत्यक्षप्रमाऽनुमानप्रमादीनां भिन्नत्वात् । तत्तत्करणतानाञ्च प्रत्यक्षादिनिष्ठानां प्रत्यक्षत्वानुमानत्वाद्यवच्छेदकभेदेन भिन्नत्वादिति भावः । ___ ननु प्रमेत्यनुगत तीत्यनुरोधेन प्रमात्वस्यैकस्यावश्याभ्युपगन्तव्यत्वेन तत्रैवैकत्वान्वयाय विभ त्यर्थंकत्वविवक्षाऽस्त्विति चेत्-न । प्रवृत्तिनिमित्तदाधमान्यतरान्वितैकत्वबोधं प्रत्येव प्रकृतिप्रत्ययानुपूर्वीरूपस्याकाङ्क्षात्वाभ्युपगमेन प्रमात्वान्वि कत्वबोधं प्रति प्रमाणमित्यस्य निराकाङ्क्षत्वेन लादशवोधासम्भवेनैकत्वस्याविवक्षितल्वात् । पितरो देवता इत्यत्र त्यागोद्देश्यत्वमेव । देवतालाञ्च पितृत्वपितामहत्वाद्यवच्छेदकभेदाद्भिन्नमिति न कुत्राप्येकत्वान्वययोग्यतेत्येकत्वस्याविवक्षया समानवचनत्वम् । पितृभ्यः स्वधेतिव्यवहारस्तु न प्रमाणिक इति भावः ।