SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ _व्युत्पत्तिवादः [ कारके त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः । तथा सत्येषामेकैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्तितयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः। एवंजात्याकृतिव्यक्तयः पदार्थ इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्तस्यैकत्वं विवक्षितमिति तत्र प्रकाशतात्पर्य्यमिति सङ्काया अनवकाशः । उक्तवाक्यार्थविरोधात् । प्रत्येकमन्यासहायेन कारणत्वे एकस्यापि शक्त्यादेः सत्त्वे कार्योत्पतेरावश्यकतया प्रत्येकं प्रयोजकतापर्याप्तिर्वक्तन्या। तथा च विलयपर्याप्तसमुदायत्वस्यातिप्रसक्तत्वेन तदनवच्छेदकता तदवच्छेदकसमुदायत्वघटितोक्तवाक्यार्थविरोधः स्पष्ट एव । ननु हेतुपदं शक्यार्थपरमेव कुतो न ग्रन्थकृत्तात्पर्य्यविषयीभूतन्तथा सति तणारणिमणिन्यायेन हेतुताप्रसज्यतेति तु नाशङ्कतीयम् । दण्डादीनां घटं प्रतीवान्वयव्यतिरेकाभ्यामेव निर्णयसम्भवादिति चेत-न । हेतो - नात्वात् शक्तित्वाद्यवच्छेदकभेदेन हेतुताया अपि नानात्वाञ्च+ स्वर्थंकत्वस्यान्वयासम्भवेनाविवक्षाया एव वक्तव्यतया त्रयः समुदिता हेतुरित्यत्रासमानवचनत्वानुपपत्तेरिति दिक् ।। त्रितयनिष्ठस्येत्यादि । घटादिपदनिरूपिता शक्तिर्घत्वादिजातिसमवायादिसम्बन्धघटादिव्यक्तिनिष्ठा एकैवेति । तत्रैवैकत्वान्वय इति पदार्थे जात्यादावेकत्वबाधेऽपि न क्षतिः । न च घटादिपदशक्तिः का या जातिसम्बन्धव्यक्तिषु एका स्यात् । किञ्च पदशक्तिरित्यस्य कोऽर्थः ? पदनिरूपिता पदनिष्ठा वा शक्तिः । शक्तेरीश्वरेच्छारूपत्वेश्वरनिष्ठायां तस्यां पदनिरूपितत्वनिष्ठत्वयोर्बाधात् जात्यादिनिष्ठत्वस्य बाधाच्चेति वाच्यम् । पदजन्यवोधविषयता शक्तिः । पदशक्तिरित्यस्य पदसम्बन्धिनी शक्तिरित्यर्थः । सम्बन्धश्च स्वजन्यबोधनिरूपितत्वरूपः । सा च निरुक्त
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy