________________
प्रथमा ] जयाऽलङ्कृतः
२६ घटसत्त्वदशायां तादृशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः ।। यत्तु एकत्वाविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात्संख्याया अविवक्षणेऽपि संपन्नो व्रीहिरित्यादावेकवचनोपपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति तदप्यकिञ्चित्करम् । भावाख्यातस्थले गत्यन्तरविरहेण विभक्तनिरर्थकत्वोपगमात् । तत्र च सार्थकत्वोपगमसम्भवे तत्परित्यागस्यानुचितत्वात् । सति तात्पर्ये तद्बोधस्यानुभविकत्वाच्चेति। एवं 'त्रयः समुदिता हेतु'रित्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरं ताहशसमुदायत्वान्वितमेकत्वमेकवचनार्थः। अत...एव शक्त्यादीनां
घटोऽस्तीतिवाक्येत्यर्थः । एवं त्रयः समुदिता हेतुरित्यत्र हेतुपदमित्यादि । हेतुपदस्य प्रयोजकत वच्छेदकसमुदायत्वावच्छिन्ने लक्षणा कार्योत्पत्तिरिति तु पर्यवसितार्थकथ सन्न तु लक्ष्यतावच्छेदककुक्षौ तस्य प्रवेशस्तदुद्भव इत्यनेनैव कार्योत्पतं त्यस्य लाभात् । प्रयोजकता च शक्तिनिपुणताऽभ्यासात्मके समुदाये कायोत्पत्तिसमानाधिकरणाभावाप्रतियोगित्वरूपा । प्रत एव शक्त्यादीनामिति । शक्तिनिपुणताऽभ्यासा इतिपदोपस्थिताः हेतुपदाच्च प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्न उपस्थितस्तस्याभेदसम्बन्धेनेत्यर्थशक्त्यादावन्वयस् तदर्थंकदेशे समुदायत्वे स्वर्थंकत्वस्यान्वयस्तदुद्भवे इत्यस्व काव्योत्पत्तीत्यर्थस्तस्याश्च प्रयोजकतायां सप्तम्यर्थनिरूपितत्वसम्बन्धेनान्वयः । तथा च काव्योत्पत्तिनिरूपितप्रयोजकतावच्छेदकैकत्वविशिष्टसमुदायत्वावच्छिन्नाभिन्नाः शक्तिनिपुणताभ्यासा इति इतिहेतुस्तदुद्भव इति वाक्यात् त्रयः समुदिता हेतुरिति वाक्याच्च बोधः। समुदिता इति विवरणवाक्यघटकपदं हेतुपदस्थोक्तार्थलाक्षणिकत्वं बोधयति । एवं च यथा दाहं प्रति तृणस्यारणेश्च म गेश्च स्वातन्त्र्येण कारणत्वं नैकसहायेनापरस्य तथैव काव्योत्पत्तौ शत्यादीनां प्रत्येक कारणत्वमित्येव कुतो न काव्य