________________
व्युत्पत्तिवादः
[ कारके घटत्वस्य पदार्थंकदेशत्वेन तत्र नित्यान्वयस्य प्रकृतव्युत्पत्तिविरुद्धत्वात् । नन्वन्वधितावच्छेदकरूपेणोपस्थितपदार्थे एव पदार्थान्वयात् । स्वरूपत एव घटपदोपस्थिते घटत्वादावन्वयासम्भवेन नापत्तिरिति चेत्-न । जातित्वविरिष्ठजातिमत्ताल्पली कलच्छब्दघटितस्य जातिल्वावच्छिलेऽभेदेन नित्यान्वयबोधकस्य नित्यः स इति वाक्यस्य प्रामाण्यापत्तेः । अतव्युत्पत्तिमूलभूतः कार्यकारणभावोऽपि विचार्यते । किचिनिष्ठप्रकास्लामिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन पदजन्योपस्थितिः कारणम् । घटत्वादौ विशेष्यतासम्बन्धेन घटपदजन्योगस्थितेरभावेन तत्र पदार्थान्तरान्वयाभावः। नच नित्यः स इत्यादौ जालावुपस्थितीयविशेष्यतायाः सत्त्वेन नित्यान्वयो दुर्वार इति वान्यं, मुख्यबिशेष्यताया एव कारणतावच्छेद्रकत्वाभ्युपगमात् । तस्माच्च जातित्वनिष्ठप्रकारतानिरूपितायामाश्रयनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्येन प्रकास्त्वासमानाधिकरणविशेष्यतास्वरूपमुख्यत्वासम्भवात् । --च. घटादावपि घटवदर्थकतत्पदजन्योपस्थितीयप्रकारतायाः सत्त्वेन मुख्यविशेष्यतयोपस्थित्यभावेन नीलादेरन्वयानापत्त्या नीलो घट इत्यस्याप्यप्रमा गत्वापत्तिरिति वावं, स्वनिरूपितत्वस्वनिरूपिलप्रकारत्वासामानाधिकरण्योभयसम्बन्धन स्वचिसिष्टविशेष्यतासम्बन्धेनोपस्थितिः कारणमित्यभ्युपगमेन पदान्तरजन्योपस्थित्यन्तरीयप्रकारतायाः सत्त्वेऽप्यापत्तिविरहात स्वमुपस्थितिः । अवैध मपि घटवान् तत्पदशक्यो घटो घटपदशक्य इति ज्ञानद्वयाधीनसमूहालम्बनो. पस्थितिजन्यो नीलो घट इति बोधो न स्थात् । घटनिष्ठयोस्तदीयप्रकारता. विशेष्यतयोस्सत्त्वेन मुख्य विशेष्यतयोपस्थितेर्घटेऽसत्त्वात् । अनोच्यते। स्कप्रयोज्यविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति स्वजन्योपस्थितिः स्कविशिष्ठविशेष्यतासम्बन्धेन कारणम् । विशेष्यतायां वैशिष्टयं स्वजन्यतम्बच्छेदकत्वस्वजन्यतावच्छेदकप्रकारत्वासामानाधिकरण्योभयसम्बन्धेनेति न दोषः । न च लाङ्गले पशुपदप्रयोज्या या तत्पदप्रयोज्यलोमनिष्ठप्रकारतानिरूपितविशेष्यता तद्रूपसम्बन्धेन शाब्दबोधो न स्यात् । पशुपदजन्योप