SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथना ] जयाऽलङ्कृतः २१ विवक्षितं तच्च प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । शाब्दप्रमाकरणत्वं च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायोग्यता। नच-पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोधः संपन्नो त्यत आह-तच्वेति । एकत्वञ्चेत्यर्थः। शब्दत्वावच्छिन्नेति । अवच्छेदकस्य शब्दत्वस्यैकत्वात्तदच्छिन्नस्य करणत्वस्याप्येकत्वेन तत्र तस्याबाधात् । नन-साक्प्रमाकरण त्वमित्यस्य शाब्दत्वविशिष्टप्रमात्वावच्छिन्नकार्यतानिरूपितकारणत्वमित्यों न सम्भवति । शब्दत्वावच्छिन्नकारणतानिरूपितकार्यताया भ्रमात्म कशाब्दबोधसाधारणतया तदपेक्षया शाब्दप्रमात्वस्य न्यूनवृत्तित्वेन तादृश कार्य्यतावच्छेदकत्वासम्भवात् । प्रमात्वस्य च वस्तुसद्भावाधीनतया शब्दजन्यतावच्छेदकत्वे मानाभावाच्च स्वजन्यकायें स्वप्रयोज्यस्यैव स्वजन्यतावच्छेदकत्वौचित्यात् । नमामि सान्दप्रमानिष्ठकार्य्यतानिरूपितेत्याद्यर्थः । सा च कार्यता शाब्दत्वावच्छिन्नैव स्यात्तस्या भ्रमप्रमासाधारण्येन वह्निना पिञ्चतीतिवाक्यजन्यभ्रमात्मकज्ञानेऽपि सत्त्वेन तन्निरूपितकारणतावति वह्निना सिञ्चतीति वाक्येऽपि प्रमाणमिति व्यवहारापत्तेरिति चेत्-प्रत्रोच्यते । शाब्दत्वावच्छिन्नकार्य्यतायाः शब्दत्वावच्छिन्नकारणतानिरूपिताया भ्रमप्रमासाधारण्येऽपि प्रमावृत्तित्वविशिष्टायास्तस्याः प्रमायामेव स्थितिरितिवत्तनिरूपितकारणताया अपि प्रमाजनकवाक्ये एव स्थितिरिति मन्यते । तथा च शाब्दप्रमाकरणत्वमित्यस्य शाब्दत्वावच्छिन्नप्रमावृत्तित्वविशिष्टकार्यतानिरूपितकारणत्वमित्यर्थः । तथा च न भ्रमजनके वह्निना सिञ्चतीति वाक्य प्रमाणत्वव्यवहार इति दिक् । न च पदार्थः पदार्थेनेति । पदार्थः पदार्थेनान्वेति-न पदार्थंकदेशेनेतिव्युत्पत्तेः स्वरूपम् । प्रकृते प्रमितिकरणत्वस्य प्रमाणपदार्थंकदेशतया तत्रैकत्वान्वयासम्भवो व्युत्तत्तिविरोमादिति भावः । एवस्या व्युत्पत्तेरङ्गीकारादेव घटत्वेऽभेदेन नित्या वयतात्पर्य्यकस्य नित्यो घट-इति वाक्यस्य नापत्तिः ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy