________________
व्युत्पत्तिवाद:
[ कारके वोमाद्रवसौ विश्वेदेवा इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमाद्रवःप्रभृत्योविशेषणतया विवक्षितत्वात्तद्वाचकस्य द्विवचनान्तता। वेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्तया बहुत्वविरुद्धमेकत्वं
यते । तथा च विंशतित्वादीनामेकत्वादेकवचनान्ता एव विशत्यादिशब्दास्साधवः । अत्रैव विंशत्याद्या इत्यनुशासनतात्पर्य्यमत एव विंशतित्वशतत्वादौ द्वित्वादिसत्त्वे द्वे विंशती त्रीणि शतानीत्यादयः प्रयोगा उपपन्नाः । तदनुशासनेन विंशत्यादिशब्दानामेकवचनान्तानामेव साधुत्वबोधने तु तेषामसाधुत्वापत्तेः। तस्मादेकत्वाविवक्षायामेकशतेऽपि शतानि हाह्मणा इत्याद्या इष्यन्त एवेति तत्त्वम् । विशेषणवाचकपदे विंशत्यादिसंख्यावाचकातिरिक्तत्वस्य निवेशो वा बोध्यः ।
नन्वेवं 'मैथिली तस्य दारा' इतिवत् साधुत्वेन प्रतीतस्य रुक्मिणीसत्यभामे कृष्णस्य दारा इत्यस्य साधुत्वानापत्तेः । विशेष्यवाचकरुकमिणीसत्यभामपदोत्तरविभक्तिवाच्यद्वित्वसंख्यायां दारत्वप्रतियोगिकपर्याप्त्यनुयोगितानवच्छेदकत्वात् । त्रयः पुरुष इत्यादेरिव तस्य समानवचनत्वनियमाक्रान्तत्वादिति चेत्-अत्रोच्यते । वाच्यत्वघटितसम्बन्धस्थाने स्वोत्तरविभक्तिवाच्यसंख्याविशिष्टधर्मावच्छिन्नबोधकत्वस्य निवेश । वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्वन्यूनसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वान्यतरसम्बन्धेन । तथा च नापत्तिरित्वस्य द्वित्वन्यूनसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वादिति दिक् ।।
द्वित्वविशिष्टयोः पुरूरवोमाद्रवः प्रभृत्योरिति । पुरूरवःपदं पुरूरवोघटितसमुदायपरम् । माद्रवःपदं तद्घटितसमुदायपरम् । विशेषणवाचकपदोत्तरविभक्त्या द्वित्वं विवक्षितमिति समानवचन वाभावः । वेदाः प्रमाणमित्यादौ समानवचनत्वाभावमुपपादयति-वेदाः प्रमाणमित्यत्र चेति । एकत्वं विवक्षितमिति । नन्वेकत्वं प्रकृत्यर्थे प्रमाणे बाधितन्तस्य बहुत्वादि