SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः साधुः स्यादिति सम्भावना । सा च नास्तीतितादृशसम्भावनाविषयत्वाभाववत्वसम्बन्धश्च दा-पदेऽस्तीति न समानवाचापतिः । द्वौ पुरुषस्त्रयः पुरुष इत्यादयश्च न प्रयोगास्तत्रोक्तचतुष्टयसम्बन्धेन विशेषणवाचकद्वयादिपदे पुरुषपदवैशिष्ट्य सत्त्वेन समानवचनत्वनियमाक्रान्तत्वाच्चतुर्थसम्बन्धघटकीभूतप्रतियोगितावच्छेदकप्रथमसम्बन्धस्य तत्राभावेन चतुर्थसम्बन्धस्यापि सत्त्वात् । तथा हि पुरुषपदोत्तरसुविभक्तिवाच्यैकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्य द्वित्वादौ बाधेन तद्घटितः सम्बन्धो नास्तीति सर्वमुपपन्नम् । न च पुणवन्तौ देव इत्यस्यानिस्तारः । पुष्पवन्तपदवाच्यतावच्छेदकस्य सूर्य्यत्वादेरेकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वेन दारपदसमानत्वादिति वाच्यं, तम्दापयप्तिप्रतियोगिधर्मविशिष्टत्वस्य निवेशनीयत्वात् । वैसिष्टच स्वान्छितकोषकत्वेन तात्पर्यविप्रयत्वस्वपर्याप्तावच्छेदकलाविरूपिताबच्छेद्यतावती या-शक्यता तन्निरूपितशक्ततावत्वोभयसम्बन्धेन पुष्पदन्तपदशक्यतायाश्च सूर्यत्वचन्द्रत्वोभयपर्याप्तत्वात् । स्वप्रयोज्यत्यादिनिवेशात् स्तोकं सुन्दरौपचावित्यादौ न दोषः। द्वितीयसम्बन्धनिवेशात् स्तोकं पचावित्यादौ न दोषः। तृतीयस्य निवेशेन सुन्दरा दारा इत्यादौ दोषाभावः । चतुर्थस्य निवेशेन मैथिली दारा इत्यादावदोषः । तत्रापि प्रथमस्य प्रतियोगितावच्छेदकस्य निवेशेन द्वौ पुरुष इत्यादौ न दोषः । द्वितीयस्य प्रतियोगित वच्छेदकस्य निवेशेन निलौ घट इति प्रयोगाभावः । · ननु शतं ब्राह्मणा इत्यादौ समानवचनत्वापत्तिरुक्तचतुष्टयसम्बन्धेन शतपदस्य विशेष्यवाच ब्राह्मणपदविशिष्टत्वात् । न च विशेषणवाचकशतपदोत्तरविभक्त्यैकत्व य विवक्षितत्वान्न दोष इति वाच्यं, एकत्वाविवक्षायां शतानि ब्राह्मणा इति प्रयोगापत्तेर्दुर्वारत्वात् । न चैकत्वाविवक्षायान्तादशप्रयोगस्येष्टत्वम् वेति वाच्यं, 'विंशत्याद्याः सदैकत्व' इत्याद्यनुशासनेनैकवचनान्तानामेव विशत्यादिशब्दानां साधुत्वबोधनात् इति चेत्-अत्रोच्यते । विंशत्यादिपदोत्तरविभक्त्या प्रकृत्यर्थतावच्छेदकगतैव संख्या प्रती
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy