SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके प्रयोजकत्वरूपः । व्यापकतावच्छेदकश्च स्वाश्रयाव्यवहितपूर्व त्वसम्बन्धः । प्रकृते दारत्वरूपानुपूर्व्यवच्छिन्न प्रयोजकता निरूपितप्रयोज्यतावती स्त्रीत्वावच्छिन्ना विषयता बहुवचनत्वरूपधर्मव्याप्या । यत्र यत्र प्रयोजकत्वसम्बन्धेन स्त्रीत्वावछिन्ना दारत्वरूपाऽऽनुपूर्व्यवच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावती विषयता तत्र तत्र स्वाश्रयाव्यवहितपूर्वत्वसम्बन्धेन बहुवचनत्वमिति व्याप्तेः सत्त्वात् । तत्प्रयोजकत्वञ्च दारपदे इति तस्य नियतवचनत्वान्न समानवचनत्वम् । १८ नन्वेवमेकत्वबोधकत्वेनाविवक्षिता जात्येकत्वबोधकत्वेन विवक्षिता वा या विभक्तिस्तदन्तविशेष्यवाचकपदघटितस्य द्वौ पुरुषः त्रयः पुरुषः इति वाक्यस्यापि साधुत्वापत्तिः । द्विशब्दत्रिशब्दयोन्नियतव वनत्वेन समानवचनत्वनियमाप्रसक्तेरिति चेत् प्रत्रोच्यते । स्वविशिष्टं वद स्वसमानवचनम् । वैशिष्ट्यञ्च सायोज्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वस्यवहितोत्तरविभक्तिवृत्तिप्रत्ययत्ववद्विभक्तिप्रकृतित्वस्वाव्यवहितोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धसंख्याबोधकत्वतात्पर्य्यविपयविभ क्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिता कस्वाभाववत्व स्वोत्तरविभक्तिवा च्यसंख्यावच्छिन्नानुयोगिताकपर्य्याप्तिप्रतियोगिधर्मावच्छिन्नबोधकत्वतात्पर्य्य विषयत्वस्वोत्तरविभक्तिसमानानुपूर्वीकविभक्तिप्रकृतित्वप्रकारकसम्भावना प्रयोज्यसाधुत्वप्रकारकसम्भावनाविषयत्वाभाववत्त्वोभय्सम्बन्धावच्छिन्नप्र तियोगिताकस्वाभाववत्वैतच्चतुष्टयसम्वन्धेन । मैथिली दारा इत्यादौ दारपदं प्रकारताप्रयोजकम् । तत्र विशेष्यवाचकमैथिलीप विशिष्टत्वं नास्ति । यत आद्यसम्बन्धत्रयसत्त्वेऽपि चतुर्थसम्बन्धो नास्ति । यतोऽभावप्रतियोगितावच्छेदकसम्बन्धद्वयमेवास्ति । तथा हि विशेष्यवाचकमैथिलीपदोत्तरविभक्तिस्सुस्तद्वाच्यैकत्वसंख्यावच्छिन्नानुयोगितानिरूपकपर्य्याप्तिप्रतियोगिभूतो धर्मो दारत्वन्तस्य प्रत्येकपर्य्याप्तत्वात् तदवच्छिन्नबो कत्वेन तात्पर्य्यविपयत्वं दारपदे । एवं स्वोत्तरा विभक्तिः सुस्तत्समानानुपूर्वीकसुविभक्तिप्रकृतित्वप्रकारकसम्भावनाप्रयोज्या यद्ययं दारशब्दः सुविभक्तिप्रकृतिस्स्यात्तदा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy