SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जयाऽलङ्कृतः र्य्यविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्वसम्बन्धेन स्वविशिष्टं विशेषणवाचकं पदं स्वसमानवचनमिति नियमस्वीकारेण दोपाभावात् । उक्तसम्बन्धस्यान्यत्र प्रसिद्धया तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभाववत्त्वरूपसम्बन्धस्य विशेष्यवाचकदारपदप्रतियोगिकस्य विशेपणवाचकसुन्दरपदे सत्त्वेन समानवचनत्वनियमात् । न च भेदान्वयस्थले विशेषणवाचकराज्ादिपदोत्तरविभक्त्या संख्याया ग्रविवक्षणे राज्ञः पुरुषा इत्यादौ समानवचनत्वनियमापत्तिरिति वाच्यं स्वप्रयोज्यविशेष्यतानिरू प्रथमा ] १७ पिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वरूपद्वितीयसम्बन्धस्यापि वैशिष्ट्यनियामकतया प्रवेशनीयत्वेनादोषात् । राजपदस्याभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वाभावात् । न चैवमपि स्तोकं पचावित्यादौ धातोर्वैशिष्ट्यं स्तोकपदेऽस्ति । क्विपोनुसन्धानेन प्रतियोगितावच्छेदकसम्बन्धस्याभावात्ततश्च समानवचनत्वापत्तिस्तदवस्थेति वाच्यम् । स्वाव्यवहितोत्तरविभक्तिवृत्तिधर्म्मवद्विभक्तिकत्वरूप तृतीयसम्बन्धस्यापि वैशिष्ट्यघटकत्वेन प्रवेशात् । प्रकृते स्विपोनुसन्धानेन तद्वयवधानात् तृतीयसम्बन्धस्याभावेनादोषात् । नन्वेवं मैथिली दारा इत्यादौ दारपदोत्तरविभक्त्यर्थ संख्याया अविवक्षया प्रतियोगितावच्छेदव सम्बन्धाभावेनाभावरूपसम्बन्धसहित सम्बन्धत्रयस्य स - त्त्वेन मैथिलीपदस्य दारपदविशिष्टत्वात्समानवचनत्व नियमापत्तिरिति चेत्-न । मैथिलीपदोत्तरविभक्त्यैकत्वस्य विवक्षितत्वेन स्वोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धत्वसम्बन्धावच्छिन्नप्रतियोगिता कस्वाभाववत्संख्याविवक्षाविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावस्य निवेशेनादोपात् । न च दारपदस्य विशेषणवाचकत्वे समानवचनत्वापत्तिस्तदुत्तरविभक्त्या संख्याया अविवक्षितत्वादिति वाच्यं उक्तसम्बन्धत्रयेण विशेष्यवाचकपदविशिष्टं नियतवचनातिरिक्तं पदं विशेष्यबोधकपदसमानवचनमिति स्वीकारात् । नियतवचनत्वञ्च एकवचनत्वद्विवचनत्व बहुवचनत्वान्यतमधर्मव्याप्यविषयताप्रयोजकत्वम् । व्याप्यतावच्छेदकसम्बन्धश्च २
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy