SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके विशेष्यवाचकाद्धातोरव्यवहितोत्तरविभक्तेस्सत्त्वेन विवक्षितत्वाभावपर्य्यन्तस्य प्रसिद्ध्या समानवचनत्वापत्तेविरुद्धान्तनिवेशेऽपि सत्त्वेन तदर्थं प्रातिपदिकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्यस्यैव वाच्यतया विरुद्धान्तनिवेशस्य फलाभावात् । न च मास्तु विरुद्धान्तनिवेशस्येदं फलन्तथापि पचतीति पक् कर्तरि क्विप। ततो द्विवचने स्तोकं पचावित्यादौ प्रातिपदिकपदप्रयोज्यविशेष्यतायाः सत्त्वेन समानवचनत्वापत्तिर्दुर्वारा । विरुद्धान्तनिवेशेऽपि इयमापत्तिरस्त्येव । न च विरुद्धान्तनिवेशे विशेष्यविशिष्टाया विभक्तेनिवेशः। वैशिष्ट्यञ्च स्वनिष्ठसंख्याबोधकत्वस्वबोधकपदाव्यवहितोत्तरत्वोभयसम्बन्धेन । स्तोकं पचावित्यादौ क्विबर्थनिष्ठसंख्याबोधकत्वेन स्तोकविशेष्यपाकनिष्ठसंख्याबोधकत्वाभावेन विशेष्यविशिष्टविभक्तरप्रसिद्ध्या अविवक्षितत्वपर्यन्तस्याप्यप्रसिद्ध्या समानवच नत्वानापत्तिरिति वाच्यम् । भावक्विबन्ते स्तोकं सम्पदावित्यादौ विशेष्यभूतसम्पत्तिविशिष्टत्वस्यैव विभक्तेः सत्त्वेनापत्तेर्दुरित्वादिति वाच्यम् । क्विपोऽनुसन्धानं विना शाब्दबोधानुदयेन तत्प्रकृतिभूतधातुप्रयोज्यैव विशेष्यता न क्विबन्तरूपप्रातिपदिकपदप्रयोज्या न वा विशेष्यभूतक्रियाविशिष्टत्वं विभक्तेविशेष्यबोधकधात्वव्यवहितोत्तरत्वस्यानुसन्धीयमानक्विपा व्यवहितत्वेन विभक्तेर्बाधात् । अव्यवहितोत्तरत्वं हि स्वोत्तरत्वेनानुसन्धीयमानोत्तरत्वेनाननुसन्धीयमानत्वस्वोत्तरत्वेनानुसन्धीयमानत्वोभयसम्बन्धेन स्वविशिष्टत्वमेवेति पक्षद्वयेऽपि दोषाभावात् । अत्रोच्यते । दारविशेषणवाचकं सुन्दरादिपदमपि बहुवचनान्तमेव साधु सुन्दरा दारा इति न तु सुन्दरो दारा इति । तत्र दारपदोत्तरविभक्त्या संख्याया अविवक्षितत्वेन विशेष्यवाचकपदाव्यवहितोत्तरविभक्तितात्पर्य्यविषयीभूतसंख्येत्याद्यविवक्षितत्वपर्यन्तस्याप्रसिद्ध्या सम्ानवचनत्वनियमानापत्त्या सुन्दरो दारा इत्यस्यापि साधुतापत्तिरिति-मैवम् । स्वाव्यवहितोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धसंख्याविषयकबोधजनकत्वेन तात्प
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy