SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १५ विशेष्यविशेषणपदयोः समानवचनकत्वनियमः। अत एव पुरूर चेत्--अत्रोच्यते। यत् वेदत्वे एकत्वविवक्षयैकवचनान्तविशेष्यवाचकवेदघटितं प्रमाणत्वे एवत्वविवक्षयैकवचनान्तविशेषणवाचकप्रमाणपदघटितं वेदः प्रमाणमिति वाक्यं तत्र समानवचनत्वानुपपत्तिः विशेषणवाचकपदोत्तरविभक्त्या संख्याया विवक्षितत्वात् । विरुद्धान्तनिवेशे.विशिष्टाभावस्य सत्त्वेनानुपपत्त्यभावः । नन् यत्र विशे यवाचकेत्यादिग्रन्थेनाविवक्षितत्वस्य समानवचनत्वव्याप्यताया एव लाभेन विवक्षास्थले समानवचनत्वसत्त्वे क्षत्यभाव इति चेत्-- इदमत्र बोध्यम् । नोलो घटा इत्यतोऽभेदान्वयवारणायाभेदान्वये विशेष्यवाचकपदसमानवचनत्वं विशेषणवाचकपदवृत्तिप्रयोजकम् । विशेषणपदोतरविभक्त्यर्थसंख्या विवक्षास्थले वेदाः प्रमाणमित्यादौ व्यभिचारवारणायाविवक्षास्थलीयाभेदान्वये समानवचनत्वं प्रयोजकमिति वक्तव्यम् । तथा च प्रमाणत्वगतैकत्वतात्पर्य्यकस्वन्तप्रमाणपदघटितात् प्रमाणं वेदेति वाक्यादभेदान्वयवारणाय संर याविवक्षास्थलीयाभेदान्वये विशेष्यवाचकपदोत्तरवचनविभिन्नवचनकविशेषणवाचकपदत्वं प्रयोजकमित्यपि वक्तव्यम् । ततश्चोक्ते वेदः प्रमाणमितिस्थले व्यभिचारवारणाय संख्यायां विरुद्धान्तं निवेशनीयम् । एवं विभज्य कथने ग्रन्यविस्तरस्स्यादतो विशेष्यवाचकपदोत्तरविभक्तितात्पर्य विषयसंख्याविरुद्धसंख्याया विशेषणवाचकपदोत्तरविभक्त्या अविवक्षा यत्र तत्र समानवचनत्वमित्येवोक्तमिति ।। केचित्तु स्तोकं पचत इत्यादौ विशेषणवाचकस्तोकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वात्समानवचनत्वापत्तिः विरुद्धान्तनिवेशे तु विशेष्यवाचकपचधातुपदाव्य वहितोत्तरविभक्त्यभावेन तादृशविभक्तितात्पर्यसंख्याविरुद्धादिविवक्षापर्यन्तापसिद्ध्या तदभावस्याप्यप्रसिद्धत्वेन समानवचनत्वाभाव इति विरुद्ध न्तनिवेशस्य फलमित्याहुः । तन्न । स्तोकमत्त इत्यादौ नारा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy