SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १४ व्युत्पत्तिवादः [ कारके त्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया श्रविवक्षितत्वं तत्र घटाद्विपदोत्तरसुपदजन्यबोधविषय एकत्वञ्च भवत्विति समूहालम्बनात्मतात्पर्य्यस्यापि विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यत्वात्तद्विषयकत्वसंख्याविरुद्धत्वाभावेन विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्य विषयसंख्याविरुद्धसंख्याविवक्षितत्वाभावसत्त्वेन समानवचनत्वापत्तिः । इदानीन्तु एकत्वस्य वेदपदोत्तरजस्पदजन्यबोधविषयत्वे नेच्छाविषयत्वाभावान्न दोषः । संख्याविरुद्धत्वञ्च संख्याऽसामानाधिकरण्यं तादृशतात्पर्य्यविषयतावच्छेदकसंख्यात्वव्याप्यधर्मावच्छिन्न भिन्नत्वं वा । श्रविवक्षितत्वमिति । विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्वमित्यर्थः । तत्रेत्यस्य तद्वाक्ये इत्यर्थः । सप्तम्यर्थघटकत्वस्य विशेष्यविशेषणपदयोरन्वयः । तथा च बाक्यघटकविशेष्यबोधकपोत्तरविभक्तिजन्यबोधविषयत्वेने च्छीयविशेष्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नभिन्न संख्याया विशेषणबोधकपदोत्तरविभक्त्याऽविवक्षितत्वं तद्वाक्यघटकविशेष्यविशेषणपदयोसमानवचनत्वमित्यर्थः । सम्मानवचनत्वञ्च स्वोत्तरविभक्तिवृत्त्येकवचनत्वद्विवचनत्वबहुवचनत्वान्यतमधर्मवद्विभक्तिकत्वम् । न चैवं सुन्दरो घटमित्यादावपि समानवचनत्वसत्त्वादभेदान्वयापत्तिरिति वाच्यम् । समानविभक्तिकत्वस्यापि प्रयोजकत्वात् । समानानुपूर्वीकत्वस्यैव वा समानवचनत्वरूपत्वात् । घटो द्रव्यमित्यादौ च स्थानिवृत्त्यानुपूर्वीमादाय सातवचनत्बोपपादवसम्भवात्। तात्पर्य्यानिवेशे विभक्त्यर्थसंख्याविरुद्धेत्याद्यर्थे कुत्रचिज्जम्विभक्तेरप्येकत्वादौ लक्षणयैकत्वमपि वेदपदोत्तरजस्विभक्त्यर्थः । तद्विरुद्धायाः प्रमाणपदोत्तरविभक्त्यर्थ संख्याया प्रभावेन विशिष्टाभावस्य सत्त्वेन समानवचनत्वापत्तिः । ननु विशेषणवाचकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्येतावतैव निर्वाहे विरुद्धान्तनिवेशस्य किम्प्रयोजनमिति
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy