________________
प्रथमा ]
जयाऽलङ्कृतः विशेपणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात् । अन्यथा घटा नील इत्यादेरपि साधुताप्रसङ्गात् । समाननिङ्गकस्थले तथा नियमोपगमेन वेदाः प्रमाणमित्यादेः साधुत्वोपपादनेऽपि 'इति हेतुस्तदुद्भवे' इति कारिकाया इति 'त्रयः समुदिता हेतु'रिति काव्यप्रकाशव्याख्याया असंगतिर्दुर्वारैव। एवमसमानलिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' पितरो देवता इत्यादेरनुपपत्तिः । मैवम् । यत्र विशेष्यवाचकपदो
यत्र विशेष्यवाचकेत्यादि । यत्रेति वाक्य इति शेषः । घटकत्वं सप्तम्यर्थः पदेऽन्वेति वाचकेति बोधकेत्यर्थः । तेन लाक्षणिकविशेष्यपदस्य नासङ्ग्रहः । उत्तरत्वञ्चोत्तरत्वेनानुसन्धीयमानत्वम् । तेन दध्यादिविशेष्यबोधकपदोत्तरविभक्तेरसत्त्वेऽपि न दोषस्तदनुसन्धानस्य सत्त्वात् । विभक्तिपदानुपादाने विशेष्यवाचकपदोत्तर यत्किञ्चित्पदतात्पयेत्येव कथने सुन्दरं दधि बहवो गुणा इत्यादौ सौन्दर्य्य एकत्वविवक्षायां विशेष्यवाचकदधिपदोत्तरबहुपदतात्पर्यविषयबहुत्वविरुद्धैकत्वस्य विवक्षिततया समानवचनत्वानुपपत्तिविभक्तिनिवेशे तत्तात्पर्य्यविषयैकत्वसंख्याविरुद्धत्वासम्भवान्न दोष इति तु न युक्तमुक्तग्रन्थेन तादृशाविवक्षितत्वे समानवचनत्वव्याप्यत्वस्यैव लाभेन व्याप्यविरहस्य व्यापकाभावापादकत्वासम्भवात् । अयोगोलके धूमाभावेऽपि वह्नयभावादर्शनात् किन्तु विभक्तिपदं स्पष्टार्थमेव । प्रमाणं वेदशाखा एकत्वं प्रमेयमित्यादौ विशेष्यवाचकपदाव्यवहितोत्तरत्वनिवेशेनैवान्यत्रावश्यकेन निर्वाहात् विभक्तितात्पर्य्यविषयेत्यस्य विभक्तिजन्यबोधविषयत्वेनेच्छाविषयेत्यर्थः। यथाश्रुते तु दा: प्रमाणमित्यादावपि प्रमाणपदोत्तरविभक्तिजन्यबोधविषयत्वेनेच्छाविषयीभूतैकत्वे वेदपदोत्तरजस्पदजन्यबोधविषयो बहुत्वं