________________
व्युत्पत्तिवादः
[ कारके त्यम् । वेदाः प्रमाणं शतं ब्राह्मणा इत्यादावन्वयबोधानुपपत्तेः । -
ननु 'विंशत्याद्याः सदैकत्वे' इत्यनुशासनात् शतं ब्राह्मणा इत्यादेः साधुत्वेपि वेदाः प्रमाणमित्यादयः कथं प्रयोगाः, विशेष्य
शब्दघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदको धर्मो लशब्दोत्तरतकारत्वन्तदवच्छिन्नलतशब्दघटितत्वस्यैव लताशब्दे सरशब्दघटकावृत्तिग्तादृशो धर्मो रशब्दोत्तरसकारत्वन्तदवच्छिन्नरसशब्दघटितत्वस्यैव रसशब्दे ... सत्त्वादिति
___ बोधानुपपत्तेरिति । तृतीयान्तसुन्दराभ्यां समभिव्याहृतचतुर्थ्यन्तघटाभ्यामित्यतोऽपि समानानुपूर्वीकत्वसत्त्वादभेदान्वयबोधापत्तश्चेत्यपि बोध्यम् । सिद्धान्ते तु प्रथमात्वादिता साजात्यविरहान्न दोषः।
· ननु नीलो घटा इत्यादावभेदान्वयवारणाय तत्र समानवचनत्वस्य प्रयोजकतया वेदाः प्रमाणमित्यतो बोधस्यैवाभाव इति तदनुरोधोऽसङ्गत इत्याह-नन्विति । सदैकत्व इति । सदैकवचनान्ता इत्यर्थः । असति बाधकइति। नियतवचनत्वानुशिष्टभिन्नविशेष्यविशेषणवाचकपदोस्समानवचनत्वमभेदान्वयप्रयोजकमित्यर्थः । समानलिङ्गकल्वञ्च स्ववृत्तिपंल्लिङ्गत्वस्त्रीलिङ्गत्वनपुंसकलिङ्गत्वान्यतमधर्मवत्त्वम् । पुंल्लिङ्गत्वादिकञ्च पुंस्त्वस्त्रीत्वनपुंसकत्वबोधकत्वमेव । पुंस्त्वादिकञ्च प्राण्यप्राणिसाधारणं सत्त्वादिगुणानामुपचयापचयसाम्यरूपं, प्राणिवृत्ति च लिङ्गयोनित दभावरूपम । तत्र गुणदोषानप्रकृतत्वाद्विस्तरभयाच्च न विचार्यते । ____इति हेतुस्तदुद्भव इति । शक्लिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे' इति कागि का। शक्तिः संस्कारविशेषः, लोककाव्यशास्त्राद्यवेक्षणजन्या निपुणता व्युत्पत्तिविशेषः, यः काव्यं करोति जानाति च तदुपदेशेन काव्यकरणयोजनादौ पौनःपुन्येन प्रवृत्तिरभ्यासः, इति त्रयः समुदिता हेतुरिति तस्या अर्थः ।