SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः . २३ स्थितेरुक्तसम्बन्धेनाभावादिति वाच्यम् । कार्यतावच्छेदकीभूतविशेप्यतायां स्वेतरपदप्रयोज्यप्रकारतानिरूपितत्वस्यापि निवेशेनादोषात् । तस्वाश्च पशुपदायोज्ययैव लोमनिष्ठप्रकारतया निरूक्तित्वात् । नन्वेचं देवदत्तस्य गुरुरित्यादौ गुरुत्वे गुरुपदप्रयोज्योपस्थितीया गुरुत्वत्वनिष्ठप्रकारतानिरूपिताविशेष्यता यद्यप्यस्ति परन्तु तस्यां गुरुनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्यस्यैव सत्त्वेन गुरूल्ने निरूक्तित्वसम्बन्धेनेष्टस्य देवदत्तान्वयस्याना पत्तिरिति चेत्-न । कार्यतावच्छेदकीभूतविशेष्यतायां नित्यसाकाङ्क्षावृस्तित्वस्य निवेशनीयत्वात् । गुरुत्वादिकञ्च नित्यसाका क्षम् । तत्पश्च स्वनिरूपकाकाङ्क्षाव्याप्यज्ञानविषयत्वम् । स्कञ्च गुरुत्वादिकम् । ततश्न प्रकृतशाब्दबोधीयविशेष्यताया गुरुत्वनिष्ठायाः प्रकृतकार्यत्मनवच्छेदकत्वान्नापत्तिः । नम्वेवमपि अगुरुपदार्थस्याभेदेन गुरुत्वपदार्थेऽन्वयतात्पर्येण गुरुरगुरुरित्यापद्येत । नित्यसाकाङ्क्षतया गुरुत्वनिष्ठाया पापाद्यमानशाब्दबोधीयविषयतायाः कार्य्यतावच्छेदकसंसर्गत्वाभावादिति चेत्-न । प्रकास्तानिरूपितत्वस्थाने प्रकारताविशिष्टत्वस्य निवेशनीयत्वात् । वैशिष्टयञ्च स्वनिरूपितत्वस्वाश्रयनिरूपितत्वाभाववद्वृत्तित्वोभयसम्बन्धेन देवदत्तस्य गुरुरित्यादौ देवदत्तनिष्ठप्रकारतायाः स्वनिरूपितत्वेऽपि स्वाश्रय देवदत्तनिरूपितगुरुत्ववृत्तित्वस्यैव विशेष्यतायां सत्त्वेन वैशिष्टयाभावेनागुरु पदार्थनिष्ठप्रकारतायाः स्वाश्रयागुरुनिरूपितत्वाभाववद्गुरुत्ववृत्तित्वस्वनिरू पितत्वोभयसम्बन्धेन गुरुत्वनिष्ठविशेष्यतायां वैशिप्ट्यस्य सत्त्वेन च नोभयत्र दोषः। प्रकृत्या चारुरित्यादौ चारुत्वे चारुपदार्थविगेपणीभूते प्रकृतेरभेदेन संसर्गेणान्वयः कथम् । तत्र निरुक्तसम्बन्धेनोपस्थितेरभावादिति चेत्-अत्रोच्यते । प्रकृत्यादिगणनिष्पन्नतृतीयार्थाभेदस्य प्रकारतयैव भानम् । ततश्च संसर्गघटकप्रकारतायां विभक्त्यप्रयोज्यत्वं निवेश्यते । प्रकृतेऽभेदनिष्ठप्रकारतायां विभक्तिप्रयोज्यत्वस्यैव सत्त्वेन कार्यतावच्छेदकसंसर्गाभावाददोषोऽत एव सम्पन्नो व्रीहिरित्यादौ व्रीहौ बहुत्वरूपसम्पत्तिविशिष्टे एकत्वान्वयस्य बाधेन ब्रीहित्वे विभक्त्यर्थंकत्वस्यान्वयेऽपि
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy