________________
व्युत्पत्तिवादः
[ कारके व्रीहिरित्यनेकनीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसङ्कोचस्यावश्यकत्वात् । यदि-च स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन प्रकृत्यर्थ एवैकत्वान्वयः, व्रीहित्वजाते: स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते, तदा प्रकृतेऽपीदृश्येव गति: यनु संपन्नो व्रीहिरित्यादावेकवचनोपस्थितानि नानैकत्वानि प्रत्येक नानात्रीहिष्वन्वीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावेकत्वमानोपगमो निरर्थक इति । तल्सत् । यत: स्वसजातीयनिष्ठभेदप्रति
व्यभिचाराभावः । एकत्वनिष्ठप्रकारताया विभक्तिप्रयोज्यत्वात् । एवञ्च वेदाः प्रमाणमित्यादौ प्रमाकरणत्वे एकत्वान्वयोऽप्युपश्यते । समानावच्छिन्नविशेष्यताकनिश्चयस्यैव विरोधिज्ञानप्रतिबन्धकतया तस्यैव प्रवृत्तिनिवृत्तिप्रयोजकतया निरवच्छिन्नविशेष्यताकेतरपदार्थप्रकारकशाब्दबोधस्यानुपयोगेनानभ्युपगमात् स्वरूपत उपस्थिते व्रीहित्वे एकत्वान्वपो न सम्भवतीत्य साह-यदि चेत्यादि । स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वेति । स्वमेकत्वन्तदाश्रयः प्रकृत्यर्थतावच्छेदकं व्रीहित्वं तद्वत्त्वं ब्रीहौ सम्बन्धः।
अन्वयितावच्छेदकरूपेणेति । ननु प्रकृतान्वयिता एकत्वनिष्ठप्रकारतानिरूपिताविशेष्यतैव । तदवच्छेदकञ्च न किमपि व्रीहित्वत्वस्यानुपस्थितत्वादन्यस्य कस्य चिदसम्भवात् प्रकृतान्वयितावच्छेदकरूपमप्रसिद्धमिति चेक्न्वयितावच्छेन्द्रकतया सम्भावितं यद्रूपं व्रीहित्वत्वन्तद्रूपेणेत्यर्थेनाप्रसिद्धयभावात् । प्रकृतेऽपीति । वेदाः प्रमाणमित्यत्रापीत्यर्थः । ईदृश्येवेति । स्वाश्रयप्रमितिकरणत्ववत्त्वसम्बन्धेन प्रमाण एवैकत्वान्वय इत्यर्थः । तथा च न तदर्थ व्युत्पत्तिसंकोच इति भावः ।
स्वसजातीयनिष्ठेत्यादि। यत्रैकत्वान्वयो विवक्षितस्तत्र' स्वसजातीयरहितत्वमेवैकत्वं विभक्तिप्रतिपाद्यम् । स्वमत्र घटादिः । ननु यत्र सजातीयो