________________
__ २५
प्रथमा ]
जयाऽलङ्कृतः योगितानवच्छेद कैकत्वरूपसजातीयद्वितीयरहितत्वमेकवचनार्थः न त्वेकत्वमात्रम् । तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात्। अनुपयोगाच्च । अत एव पशुना यजेत इत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरणकयागान्नादृष्टसिद्धिः सानात्यं च स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेण । अतोऽत्र घटोऽतीत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वा
द्वितीयोऽस्ति तत्रा परस्मिन घटादौ तदद्वितीयाभावरूपं रहितत्वं वर्तत. एवान्यस्य रहितल स्य वर्णयितुमशक्यत्वादित्यतः स्वयमेव परिष्करोति-' स्वसजातीयनिष्ठेत्य दिना । स्वसजातीयत्वं स्ववृत्तिधर्मवत्त्वम् । तत्र स्वं' घटादिस्तद्वृत्तिधर्मः क इति जिज्ञासायामाह-साजात्यञ्चेति । स्वसमभिव्याहृतपदार्थेत्यादि । स्वं यदर्थ एकत्वं वर्ण्यते तदेकवचनं स्वादिः । तत्समभिव्याहृतन्तद्घटितवाक्यघटक पदमत्र घटोऽस्तीत्यादौ-अत्रेत्यादि। तदर्थ एनहे विद्यमानत्वा दस्तत्संसर्गः स्वरूपादिः । प्रकृत्यर्थतावच्छेदकञ्च घटबादिः तथा चात्र घटोऽस्तीत्यादौ स्वर्थंकत्वं घटे प्रतीयते तच्चैकत्वं घटे किमित्यांकाङ्क्षायां घटवृत्तयो ये धर्माः सुप्रकृत्यर्थतावच्छेदकं घटत्वं सुसमभिव्याहृतपदा तद्देशविद्यमानत्वादिस्वरूपादिसंसर्गाश्च तद्वत्त्वम् । यदि तस्मिन् देशे द्वितीयो घटोऽस्ति तदा तत्र तन्निष्ठो भेद एतद्घटगतैकत्ववान्नेत्याकारकस्तत्प्रतिय गितावच्छेदकमेव तदेकत्वम् । यदि तत्र द्वितीयो नास्ति तदा स्वयमेव स्वसज तीयस्तनिष्ठस्तद्गतैकत्ववानेत्याकारको भेदो नास्ति। किन्तु देशान्तरीय दिनिष्ठैकत्ववान्नेत्याकारक एव तत्प्रतियोगितानवच्छेदकमेतद्देशस्थघटतमेकत्वमिति तदेकवचनप्रतिपाद्यमिति निष्कर्षः ।। ___ नन् यदैतद्देशे एको घटो ब्राह्मणस्यापरश्च शूद्रस्य तदाऽत्र ब्राह्मणस्य घटोऽस्तीति प्रयोगो न स्यादेतद्घटवृत्तिर्यः प्रकृत्यर्थतावच्छेदकघटत्वं सुसमभिव्याहृतपदार्थेतद्देश विद्यमानत्वसंसर्गश्च तद्वत्त्वमपरस्मिन् शूद्रघटे तनिष्ठभेदप्रतियोगितावच्छे कत्वमेव ब्राह्मणघटगतैकत्व इत्येकवचनप्रयोगोऽसंगत