SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [ कारके व्युत्पत्तिवादः इति चेत्-न । यावत्स्वसमभिव्याहतपदार्थसंसर्गस्य विवक्षितत्वात् । प्रकृते. ब्राह्मणस्य घटे ब्राह्मणसंसर्गोऽस्ति स शूद्रघटे नास्तीत्वनः । न च स्वस्वामिभावस्यासत्त्वेऽपि कालिकादिसंसर्गोऽस्त्येवेति वाच्यं, शाब्दबोधविषयसंसर्गस्यैव विवक्षितत्वेन कालिकादिसम्बन्धसत्ताया अकिञ्चित्करत्वात् । न च कस्मिँश्चिच्छाब्दबोधे कालिकादेरपि विषयत्वसम्भवात्तस्य च प्रकृते सत्त्वादोष एवेति वाच्यं, प्रकृतशाब्दबोधविषयताया एवापेक्षितत्वात् । कालिकसम्बन्धेन देवदत्तविशिष्टो यज्ञदत्तः अत्र घटोऽस्तीतिवाक्यद्वयजन्यसमूहालम्बनबोधमादाय तस्या अपि तत्र सम्भवादिति चेत् । स्ववृत्तयो यावन्तः सुसमभिव्याहृतपदार्थसंसर्गास्तेषां सर्वेषां सत्ताया अपेक्षितत्वात् । प्रकृते कालिकादेाह्मणसंसर्गस्य शूद्रघटे सत्त्वेऽपि स्वस्वामिभावरूपस्य तद्घटे वर्तमानस्य ब्राह्मणसंबंधस्य शूद्रघटेऽसत्त्वेन यावत्संसर्गाभावेनादोषः । पशुना यजेतेत्यनेनैकत्वविशिष्टपशकरणके याग इष्टजनकत्वं बोध्यते । तत्र पशुसजातीयो द्वितीयो नास्ति किन्तु स्वयमेव स्वसजातीयस्तनिष्ठभेदप्रतियोगितानवच्छेदकत्वं तद्गतैकत्वेऽस्तीति समन्वयः । पशुद्व प्रकरणकयागे च नानया श्रुत्याऽदृष्टजनकत्वं बोध्यते तत्रैकत्वविशिष्टपशुकरणकयागत्वरूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् । तद्यागीयद्वितीयपशोरपरपशुसजातीयस्य सत्त्वेन एकत्वविशिष्टपशोरभावात् । ननु सर्वस्यैकत्वविशिष्टपशुकरणकयागस्यानयाऽदृष्टजनकत्वबोधनाय सर्वस्तादृशो याग एतद्यधातुरूप- . पदार्थः । तत्संसर्गस्य पशुत्वरूपप्रकृत्यर्थतावच्छेदकस्य च या गान्तरीयपशौ सत्त्वात्स एव एतद्यागीयपशुसजातीयस्तद्रहितत्वमेतत्पशौ नास्तीति कथमेकत्वविशिष्टपशुकरणको यागः प्रसिद्ध इति चेत्-न । एतत्पशुवृत्तिरेतद्यागव्यक्तिसंसर्गस्स च यागान्तरीयसंसर्गवति पशौ नास्तीति तस्यैतत्सजातीयत्वाभावात् । एवं नरेण नरो यजेतेत्यादावपि करणभूतनरसजातीयत्वं कर्तृभूतनरे तत्सजातीयत्वन्तस्मिन् वा नरे नास्ति करणभूतनरे यागस्य करणत्वं संसर्गस्स च कर्तरि नरे नास्ति। तस्मिन् नरे यागस्य कर्तृत्वं संसर्गस्स च करणभूते तस्मिन् नास्तीत्यतः स्ववृत्तिसंसर्गवत्त्वस्यान्यत्राभावात् किन्तु
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy