SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः २७ स्वयमेव स्वसजातीयन्तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तद्गतैकत्वे सत्त्वेनोभयत्रैकवचनोपपत्तिः न च बहुब्राह्मणकर्तृकशयनाधिकरणस्थानतात्पयेणात्र ब्राह्मणः श्ते इत्यापद्येत । कर्त्तभेदेन शयनक्रियाया भेदादेकब्राह्मणवृत्तिर्यः शयनक्रियाव्यक्तिसम्बन्धः । स ब्राह्मणान्तरे नास्तीति स्वसजातीयत्वं स्वस्मिन्नेव तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तदेकत्वे सत्त्वादिति वाच्यं, पदार्थसंसर्गित्वमित्यत्रत्यपदार्थपदेन पदार्थतावच्छेदकस्य ग्रहणनादोपात् । तथा च ब्राह्मणे यः शयनत्वरूपपदार्थतावच्छेदकस्य सम्बन्धः स्वावच्छित्रनिरूपित् कर्तृत्वरूपस्तस्यैव ब्राह्मणान्तरे सत्त्वेनैतद्ब्राह्मणसजातीयो द्वितीयो ब्राह्मणस्तद्रहितत्वाभावेनैकवचनोपपत्त्यभावात् । अथैवं सति शुना यजेतेत्यत्र दोष एव । तत्राप्येतत्पशुनिष्ठो यो यागत्वरूपपदार्थतावच्छेदकसम्बन्धः स्वावच्छिन्ननिरूपितकरणत्वरूपस्तस्यैव यागान्तरीयपगावपि सत्त्वेन तस्याप्येतत्पशुसजातीयत्वेन तद्रहितत्वाभावादिति चेत-सत्यम् । अत्र यज्धातो-गत्वोपलक्षिततत्तद्वयक्तित्वावच्छिन्ने लक्षणा । ततश्चैतद्यागीयपशौ यो यज्पदार्थतावच्छेदकतद्व्यक्तित्वसम्बन्धस्तस्य यागान्तरीयपशावभावात् तत्र हि भिन्नतद्वयक्तित्वस्य स्वावच्छिन्नकरणत्वसम्बन्ध इति यागान्तरीयपशोरेतत्पशुसाजात्याभावेन दोपानवकाशात् ।। केचित्तु पदार्थादं पदजन्योपस्थितिमुख्यविशेष्यपरमेव यज्धातुर्यागत्वावच्छिन्नपर एव । बहुव्राह्मणकर्तकशयनस्थले अत्र ब्राह्मणः शेते इतीष्यते एव । न चैवं सति बहुघटसत्त्वदशायामत्र घटोऽस्तीति वाक्यन्तु जात्येकत्वादेव समर्थनीयमिति ग्रन्थासङ्गतिर्बहुब्राह्मणकर्तृकशयनदशायामत्र ब्राह्मणः शेते इत्यस्येवास्यापि व्यक्त्यैकत्वपरतयाऽपि साधुत्वोपपादनसम्भवादिति वाच्यं, प्रत्र घटोऽस्तीत्यादौ घटत्वावच्छिन्नाधेयताया एवास्धात्वर्थसत्तारूपतया तप्या एकत्वेनात्र ब्राह्मणः शेते इत्यतो वैलक्षण्यसम्भवादित्याहुः । स्वविशिष्टमेकत्वमेकवचनार्थः । वैशिष्टयञ्च स्वाभाववत्त्वसम्बन्धेन । प्रतियोगितावच्छेदकसम्बन्धश्च स्वविशिष्टावच्छेदकतावत्त्व
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy