________________
६८
व्युत्पत्तिवादः
[ कारके रणार्थमन्यत्र दर्शिता पर्याप्तिनिवेशरूपा दिक् आश्रयितव्येत्यर्थस्तथा च तद्धर्मपर्याप्तावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितेत्यादिरूपः कार्यतावच्छेदकस्सम्बन्धः । प्रकृते च नीलघटत्वोभयपप्तिा अवच्छेदकता न घटत्वपर्याप्तेति घटत्वभेदाभावेऽपि न दोषः ।
ननु नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेप्यतावच्छेदकतासम्बन्धेन शाब्दबोधे यदि नीलभेदघटत्वभेदयोः कारणत्वं तर्हि विधेयकोटावधिकावगाहिनोऽपि घटो नीलघट इति बोधस्यानापत्तिघटत्वे उक्तभेदद्वयस्यासत्त्वात् । यदि नीलघटत्वोभयभेदस्य तत्त्वं घटत्वे तस्य सत्त्वेन न दोषस्तर्हि तस्य केवलान्वयित्वेन समानोद्देश्यविधेयकस्य नीलघटो नीलघट इत्याकारकस्यापि शाब्दस्यापतिः। घटत्वे नीले वा विशेष्यतावच्छेदके नीलघटत्वोभयभेदस्य सत्त्वादिति चेत् न। तदपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति तद्भेदस्य कारणत्वाङ्गीकारात् घटो नीलघट इत्यादौ विधेयांशेऽधिकावगाहिनः शाब्दबोधस्य घटत्वनीलोभयगतद्वित्वरूपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे सत्वेन तत्र घटत्वनीलोभयगतद्वित्वभेदस्यापि सत्त्वेनादोषात् । न. चोभयपर्याप्ताया अपि प्रकारतावच्छेदकताया वस्तुत्वेन घटत्वे एव पर्याप्तिस्तदनुयोगितावच्छेदकञ्च घटत्वगतैकत्वमेव। तथा च तदवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे शाब्दबोधस्तत्र घटत्वगतैकत्वभेदाभावाद्वयभिचार एवेति वाच्यम् । स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तद्रूपवृत्त्यभेदसम्बन्धा