________________
स्थले न शाब्दबोधापत्तिः । स चट इत्यादिवाक्याज्जातित्वादिना घटत्वादिधर्मितावच्छेदककस्य स्वरूपतो घटत्वादिप्रकारतावच्छेदककस्य घट: स इत्यादिवाक्यात्स्वरूपतो घटत्वादिधम्मितावच्छेदककस्य जातित्वादिविशिष्ट घटत्वावच्छिन्नप्रकारताकस्य च शाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये । घटो नीलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र
अपेक्ष्यत इति भावः । न शाब्दबोधापत्तिरिति । घटत्वे घटत्वभेदाभावादिति भावः। जातित्वादिनेति । स घट इत्यत्र जातिमान् तत्पदार्थस्तत्र जातिघटत्वं विशेष्यतावच्छेदकमवच्छेदकता जातित्वावच्छिन्नेति घटो घट इत्यतो विशेषः । घटस्स इत्यत्र जातिमान् तत्पदार्थस्तत्र प्रकारतावच्छेदकं घटत्वं जातिः प्रकारतावच्छेदकता च जातित्वावच्छिन्नेति पूर्वस्माद्विशेषः । उभयत्र शाब्दबोध इष्यते । स इदानीं न स्यात् प्रकारतावच्छेदकविशेष्यतावच्छेदकयोरैक्यादिति भावः । विशेष्यत्वप्रकारत्वयोरवच्छेदकत्व इति । विशेष्यतावच्छेदकताप्रकारतावच्छेदकतानिरवच्छिन्ना कार्य्यतावच्छेदके प्रवेश्या इति भावः । तथा च तद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति तद्धर्मभेदः कारणमिति पर्यवसितम् । निरुक्तप्रयोगद्वये जायमानशाब्दबोधौ च न निरवच्छिन्नप्रकारतादिविशेष्यतावच्छेदकतांविशेष्यतावच्छेदकताकाविति न तत्र प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदापेक्षेति प्रकारतावच्छेदकविशेष्यतावच्छेदकयोरभेदेऽपि शाब्दबोधोपपत्तिः ।
घटो नोलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वे अन्यत्रेति । तत्र हि घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन घटत्वे शाब्दबोधस्तत्र च घटत्वभेदाभावाद्वयभिचारः प्राप्तस्तद्वा