________________
व्युत्पत्तिवादः
[ कारके वारणीयत्वादिति चेत्तर्हि तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया घटो घट इत्यादि
प्रकारकपरामर्शज्ञानस्य धम्मितावच्छेदकतासम्बन्धेन पर्वतत्वे विरहाद्धम्मितावच्छेदकतासम्बन्धेनालोकहेतुकानुमितेश्च सत्त्वात्प्राप्तव्यभिचारवारणाय म्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शज्ञानं स्वीयम्मितावच्छेदकताविशिष्टम्मितावच्छेदकतासम्बन्धेन धूमहेतुकवह्नित्वावच्छिन्नप्रकारताकानुमिति प्रति कारणमित्येवं रीत्या कार्यकारणभावः कारणतावच्छेदकसम्बन्धस्य वैशिष्ट्यं कार्य्यतावच्छेदकसम्बन्धे निवेश्य स्वीकृतोऽस्ति। प्रकृते द्रव्यत्ववृत्त्यनुमितीयम्मितावच्छेदकतायां धूमहेतुकपरामर्शीयम्मितावच्छेदकतावैशिष्ट्यविरहात् पर्वतत्ववृत्त्यालोकहेतुकानुमितीयम्मितावच्छेदकतायामालोकलिङ्गकपरामर्शीयम्मितावच्छेदकतावैशिष्टयविरहान व्यभिचारः । तथैव प्रकृतेऽपि स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितिः स्वजनकज्ञानीयवृत्तिनिष्टप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टस्वीयप्रकारताविशिष्टप्रकारतासम्बन्धेन शाब्दबोधं प्रति कारणमित्येव कारणतावच्छेदकसम्बन्धवैशिष्ट्यं कार्य्यतावच्छेदकसम्बन्धे निवेश्य कार्यकारणभावः स्वीक्रियते। नीलो घट इत्यादौ प्रकारे नीले या शाब्दबोधीया प्रकारता तत्र स्वजनकेत्यादिप्रकारतान्तकारणतावच्छेदकसम्बन्धवैशिष्ट्यविरहेण न व्यभिचार इत्याशयः। अक्षरार्थस्तु परामर्शकारणताया यो विचारस्तत्र दर्शिताया दिक तया तद्रीत्या व्यभिचारो वारणीय इति ।
एतत्पर्य्यन्तग्रन्थेनापत्ति दृढीकृत्य समाधत्ते--तद्धर्मावच्छिन्नाभेदसंसवच्छिन्नेत्यादिना । प्रकारतावच्छेदकभेदो विशेष्यतावच्छेदके अभेदान्वये