________________
प्रथमा ]
जयाऽलङ्कृतः । निष्ठप्रत्यासत्त्या पदार्थोपस्थितेहेतुता व्यभिचारेण कल्पयितुमशक्येति वाच्यम् । पसमर्शकारणताविचारदर्शितदिशा व्यभिचारस्य
वच्छेदकताविशिष्टविषयतैवोपस्थितिनिष्ठकारणतावच्छेदकस्सम्बन्धोऽस्तु । वैशिष्ट्यञ्च स्वप्रयोज्यत्वस्वनिरूपितम्मिताप्रयोज्यत्वैतदन्यतरसम्बन्धेन । ततश्च न व्यभिचार इति वाच्यम् । नीलो घट इत्यादौ मुख्यविशेष्ये घटेऽपि तादशसम्बन्धेनोपस्थितेस्सत्त्वेन प्रकारतासम्बन्धेन शाब्दबोधाभावे नान्वयव्यभिचारस्य तावतापि सत्त्वात । विषयतामात्रस्य कार्यतावच्छेदकत्वे तत्र विषयतासम्बन्धेन शाब्दबोधस्यापि सत्त्वान्न व्यभिचार इति तु न संसर्गे व्यतिरेकव्यभिचारापत्तेः । संसर्गताभिन्नविषयतायाः प्रवेशे सामान्यलक्षणानभ्युपगन्तृमते शक्तिग्रहाविषयस्यापूर्वव्यक्तेरपि योग्यताबलेन शाब्दबोधोत्पत्त्या तत्र व्यभिचारापत्तेः ।
परामर्शकारणताविचारदर्शितेत्यादि। समवायसम्बन्धेन धूमहेतुकानुमितौ समवायसम्बन्धेन धूमहेतुकपरामर्शज्ञानस्यात्मनिष्ठप्रत्यासत्त्या कारणत्वोपगमे पक्षतावच्छेदकानन्त्यात् कार्यकारणभावानन्त्यापत्त्या धम्मितावच्छेदकतासम्बन्धेन धमहेतुवह्नित्वावच्छिन्नप्रकारताकानुमितौ धम्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शज्ञानस्य लाघवात् धम्मितावच्छेदकनिष्ठप्रत्यासत्त्या कारणत्वे स्वीकृते भाविज्ञानमप्रमेत्यप्रामाण्यज्ञानानन्तरं वह्निव्याप्यधूमवान् पर्वत इति परामर्शस्ततो वह्निव्याप्यालोकवद्रव्यमिति परामर्शः। तस्मिन् क्षणेऽप्रामाण्यज्ञानस्य नाशादप्रामाण्यज्ञानानास्कन्दितस्य परामर्शद्वयस्य सत्त्वेन तदनन्तरं समूहालम्बनात्मकं पर्वतो वह्निमान् द्रव्यं वह्निमदित्याकारकमुभयलिङ्गकानुमित्यात्मक ज्ञानं जायते । तत्र कारणीभूतस्य वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शस्य धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे विरहात् धूमलिङ्गकानुमितेश्च भत्त्वादेवं कारणीभूतस्य वह्निव्याप्यालोकत्वावच्छिन्न