SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६४ व्युत्पत्तिवादः [ कारके पत्तेकात् । न च पदार्थेऽपि प्रकारतासम्बन्धेन शाब्दबोधोत्पत्त्या तत्र निरुक्तप्रकारतासम्बन्धेन पदार्थोपस्थितेरभावात्प्रकार - प्येकरूपेण कारणत्वासम्भवात् पृथक् पृथक् कारणत्वमुक्त्वा परस्परजन्यबोधे व्यभिचारवारणायाव्यवहितोत्तरत्वं कार्य्यतावच्छेदककोटौ निवेश्य चत्वारः कार्य्यकारणभावाः स्युः । एवञ्चैकस्यापि कार्य्यस्य धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकताया प्रभावेन धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तौ तत्कारणीभूतोपस्थित्यनपेक्षणादनुपस्थितदशायां द्रव्यत्वादौ धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानबलात् धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधो दुर्वार एवेति चेत् — प्रत्रोच्यते । निरुक्तकार्य्यतावच्छेदकधर्माणां प्रकारतासम्बन्धेन जायमानशाब्दबोधत्वव्याप्यतया व्याप्यधर्मावच्छिन्ने कार्य्यं जननीये व्यापकधर्म्मावच्छिन्नसामग्रया अपेक्षणात् । अव्यवहितोत्तरत्वनिवेशे निरुक्तसम्बन्धेनोपस्थित्यनुत्तरं शुद्धप्रकारतासम्बन्धेनोद्बोधकवशादुपस्थितद्रव्यत्वे शाब्दबोधापत्तिवारणाय व्यापकधर्मावच्छिन्ने कार्ये व्याप्यधर्मावच्छिन्नकार्य्यसामग्रया अपेक्षा वक्तव्या । तथा च तदन्तर्गता या विशिष्टप्रकारतासम्बन्धेनोपस्थितिस्तस्या अभावान्नापत्तिः । धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकतया येन सम्बन्धेन यद्धर्मावच्छिन्नकाय्र्यं प्रति येन सम्बन्धेन यद्धर्म्मावच्छिन्न कार्य्यस्य व्यापकतेत्यादिमूलोक्तरीत्या धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकसामग्रयन्तर्गताया विशिष्टप्रकारतासम्बन्धेनोपस्थितेरपेक्षणान्नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधापत्तिरिति । बीलो घट इत्यादौ नीले प्रकारतासम्बन्धेन शाब्दबोधो भवति प्रकारतासम्बन्धेनोपस्थितिर्नास्तीति व्यभिचार इत्याह-न च पदार्थेऽपीत्यादि । प्रकारनिष्ठ प्रत्यासत्येति । प्रकारतासम्बन्धेनेत्यर्थः । न च निरुक्तधम्मिता
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy