SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः स्वेन तादृशप्रकारतासम्बन्धेन घटत्वरूपानुपूर्व्यां तादृशसमूहालम्बनोपस्थितेस्सत्त्वेन तत्र शाब्दबोधापत्तिरतो घटत्वनिष्ठा वच्छेदकतानां विशिष्य स्वजनकज्ञानीयवृत्तिनिष्ठ प्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन स्वजनकज्ञानीयवृत्तिनिष्ठ संसर्गतानिरूपितप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन ३ स्वजनकज्ञानीयशक्तत्वनिष्ठप्रकारतानिरूपितावच्छेदकतावच्छेदकतात्वेन स्व संसर्गतानिरूपितप्रकारतावच्छेदकतात्वेन प्रवेश्य तत्तदवच्छेदकताविशिष्टप्रकारतात्मकेनासम्बन्धेनोपस्थितीनां पृथक् पृथक् कारणत्वे परस्परजन्यबोधे परस्परव्यभिचारवारणाय स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपित विशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थित्यव्यवहितोत्तरं प्रकारतासम्बन्धेन शाब्दबोधं प्रति स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितिः कारणम् । एवं क्रमेण चत्वारः कार्य्यकारणभावाः स्युः । एवं वृत्तित्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया समानविषयकशाब्दबोधं प्रति प्रत्यक्षसामग्र्याः प्रतिबन्धकतया समानविषयकप्रत्यक्षसामग्न्यभावोऽपि शाब्दसामग्न्यां प्रवेश्यः । शाब्देच्छायां समानविषयकप्रत्यक्षसामग्री सत्त्वेऽपि शाब्दबोधोत्पत्त्या शाब्देच्छाविरहविशिष्टप्रत्यक्ष सामग्यभावः शाब्दसामग्यां प्रवेशनीयः । तथा च शक्तिज्ञानाधीनः शाब्दबोधो जायतामितिच्छासत्त्वे प्रत्यक्षसामग्रीसत्त्वे लक्षणाज्ञानाधीनोपस्थितिघटितशाब्दसामग्रीसत्त्वे शाब्दबोधवारणाय शक्तिज्ञानाधीनोपस्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसामप्रभावविशिष्टा शक्तिज्ञानाधीनोपस्थितिः कारणं लक्षणाज्ञानाधीनोपस्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसामग्रयभावविशिष्टा लक्षणाज्ञानाधीनोपस्थितिः कारणमित्येव शक्तित्वेन लक्षणात्वेन शक्तिलक्षणे प्रवेश्य कार्य्यकारणभावो वक्तव्य इति शक्तिलक्षणान्यतरत्वेनापि तयोरनुगमासम्भवेन घटः पटपदशक्यसम्बन्धी, घटः स्वशक्यसम्बन्धित्वरूपलक्षणात्मकसम्बन्धेन पटपदविशिष्टः, घटसम्बन्धिशक्तं पटपदं, स्वसम्बन्धिशक्तत्वसम्बन्धेन घटविशिष्टं पटपदमिति चतुर्विधलक्षणाज्ञानाधीनोपस्थितीनाम जनकज्ञानीयशक्तत्वसंसर्गनिष्ठ
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy