________________
व्युत्पत्तिवादः
[ कारके वस्तुतस्तु उद्बोधकवशादुपस्थितीयप्रकारतासूक्तासूक्तवृत्तिज्ञानीयधम्मितावच्छेदकताप्रयोज्यत्वविरहात् स्वप्रयोज्यत्वमात्रं वैशिष्ट्यनियामकं वक्तव्यं तेनैवोक्तदोषाणां निरासः । किञ्च द्रव्यं द्रव्यपदशक्यं घटो घटपदशक्य इति समूहालम्बनं वृत्तिज्ञानं द्रव्यपदशक्यमित्यंशे अप्रामाण्यज्ञानास्कन्दितं ततो घटत्वावच्छिन्नोपस्थितावुद्वोधकान्तराद्रव्यत्वावच्छिन्नस्य भाने द्रव्यत्वनिष्ठसमवायसम्बन्धावच्छिन्ननिरवच्छिन्नप्रकारतायामुक्तचतुष्टयसम्बन्धेनोपस्थितिजनकसमूहालम्बनात्मकवृत्तिज्ञानीयम्मितावच्छेदकताया वैशिष्टयसत्त्वेन द्रव्यत्वप्रकारकशाब्दबोधवारणं प्रयोज्यत्वनिवेशाधीनमेवेति दिक् ।
ननु घटत्वादिप्रकारकोपस्थितिजनकशक्तिज्ञानानि नानाविधानि । तथा हि घटो घटपदशक्यत्ववान् शक्तिसम्बन्धेन घटो घटपदविशिष्टः इत्याकारको शक्तिनिष्ठप्रकारताकशक्तिनिष्ठसंसर्गताको घटत्वनिष्ठविशेष्यतावच्छेदकताको घटशक्तं घटपदं शक्तिसम्बन्धेन घटविशिष्ट घटपदमित्याकारको शक्तिनिष्ठप्रकारताकशक्तिसंसर्गकघटत्वरूपानुपर्व्यवच्छिन्नविशेष्यताकौ च । तत्राद्यज्ञानजन्योपस्थितीयघटत्वनिष्ठप्रकारता तु उपस्थितिजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपितघटत्वनिष्ठावच्छेदकताविशिष्टाऽस्ति । इतरेषु ज्ञानेष्वाद्यज्ञानीया वृत्तिनिष्ठा संसर्गताऽस्ति । न तु प्रकारताऽग्रिमज्ञानीयविशेष्यतावच्छेदकताघटत्वरूपानुपूर्वीनिष्ठा तद्वैशिष्ट्यमुपस्थितीयघटत्वनिष्ठप्रकारतायां नास्तीत्यन्तिमज्ञानत्रयजन्योपस्थितयः स्वजनकज्ञानीयवत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेन घटत्वे न सन्तीति तत्र प्रकारतासम्बन्धेन शाब्दबोधानापत्तिः । निरुक्तावच्छेदकतानां घटत्वनिष्ठानां स्वजनकज्ञानीयवृत्तिनिष्ठविषयतया परम्परया निरूपितत्वेनानुगमय्य तद्विशिष्टप्रकारताया उपस्थितिकारणतावच्छेदकसम्बन्धत्वे घटो घटपदशक्य इति वृत्तिज्ञानजन्यघटत्वप्रकारकोपस्थितावुद्वोधकान्तराद्घटत्वरूपानुपूर्व्यवच्छिन्नादेर्भाने आनुपूर्वीनिष्ठप्रकारताया अपि निरुक्तविषयतया विशिष्ट