________________
प्रथमा ]
जयाऽलङ्कृतः सर्गतोपगमेऽप्युद्धोधकान्तरादुपस्थितद्रव्यत्वे शाब्दापत्तिवारणसम्भवे प्रकारतापर्यंन्तानुधावनं व्यर्थमिति वाच्यम् । द्रव्यं द्रव्यपदशक्यं प्रमेयः प्रमेयपदशक्य इति समूहालम्बनवृत्तिज्ञानात्प्रमेयत्वावच्छिन्नमात्रोपस्थितौ द्रव्यत्वेऽपि विशेष्यतावच्छेदकतासम्बन्धेनोपस्थितेस्सत्त्वाच्छाब्दापत्तेर्वारणाय प्रकारतापर्य्यन्तस्यादरादुद्बोधकान्तरादुपस्थितद्रव्यत्वनिष्ठप्रकारतायां कालिकसम्बन्धेन प्रमेयत्वनिष्ठनिरुक्तविशेष्यतावच्छेदकतावैशिष्ट्यमादायोक्तदोषतादवस्थ्यमिति सामानाधिकरण्यसम्बन्धेन वैशिष्टयं बोध्यम् । घटो घटपदशक्य इति वृत्तिज्ञानाद्घटत्वावच्छिन्नोपस्थितावुद्बोधकान्तरात्प्रमेयत्वावच्छिन्नस्य भाने प्रमेयत्वावच्छिन्नप्रकारतायां निरुक्तविशेष्यतावच्छेदकतावैशिष्ट्यसत्त्वात् प्रमेयत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय स्वानवच्छेदकधनिवच्छिन्नत्वस्यापि वैशिष्ट्यघटकत्वं बोध्यम् । प्रकृते चावच्छेदकतानवच्छेदकप्रमेयत्वावच्छिन्नत्वस्यैव प्रमेयत्वावच्छिन्नप्रकारतायां सत्त्वेनादोषः । प्रमेयवान् प्रमेयपदशक्य इति वृत्तिज्ञानात्प्रमेयत्वावच्छिन्नप्रकारताकोपस्थितावुद्बोधकान्तराद्घटत्वावच्छिन्नस्य भाने निरवच्छिन्नघटत्वनिष्ठप्रकारतायां वृत्तिज्ञानीयम्मितानिरूपितप्रमेयत्वावच्छिन्नावच्छेदकतावैशिष्टयसत्त्वानिरवच्छिन्नघटत्वनिष्ठप्रकारताकशाब्दबोधापत्त्या स्वानवच्छेदकधानवच्छिन्नत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तित्ववत्वमपि वैशिष्टये निवेश्यम् । प्रकृते घटत्वनिष्ठनिरवच्छिन्नप्रकारतायां स्वानवच्छेदकधनिवच्छिन्नत्वसम्बन्धावच्छिन्ना प्रमेत्वावच्छिन्नवृत्तिज्ञानीयम्मितावच्छेदकतानिरूपिता या वृत्तिता तस्या असत्त्वाददोषः । कालिकसम्बन्धेन द्रव्यत्वविशिष्टो द्रव्यपदशक्य इति वृत्तिज्ञानजन्यकालिकसम्बन्धावच्छिन्नद्रव्यत्वनिष्ठप्रकारताकोपस्थितौ समवायसम्बन्धेन घटत्वविशिष्टघटस्योद्बोधकान्तराद्भाने घटत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतायां धर्मितावच्छेदकतावैशिष्ट्यस्योक्तसम्बन्धत्रयेण सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्वप्रकारकशाब्दबोधवारणाय स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्यापि चतुर्थसम्बन्धस्य वैशिष्टये प्रवेशः ।