________________
६०
व्युत्पत्तिवादः
[ कारके
शाब्दबोधावापत्तिः । तथा न प्रकारत्वम्सम्बन्धेन - शाब्दबोधं प्रति स्वजनकज्ञानीशक्तिनिष्ठ प्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजनकज्ञानीयशक्तिसम्बन्धावच्छिन्नपदनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेद्रकता स्वजन
कज्ञानीयपदनिष्ठ विशेष्यतानिरूपितजनकत्वनिष्ठेच्छीयप्रकारतानिरूपितबोधनिष्ठावच्छेदकता निरूपितविषयत्वनिष्ठावच्छेदकत्व निरूपितावच्छेदकतावच्छेदकलन स्वजनकज्ञानीयशक्तिसम्बन्धावच्छिन्नपदनिष्ठ विशेष्यतानिरूपितप्रकारतावच्छेदकता स्वजनकज्ञानीयलक्षणानिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकला स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्नपदप्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्ना पदनिष्ठविशेष्यतानिरूपिता या प्रकारता तदवच्छेदकता स्वजनकज्ञानीयपदनिष्ठविशेष्यतानिरूपितशक्तत्वनिष्ठप्रकारतानिरूपितसम्बन्धिनिष्ठावच्छेदकतानिरूपितावच्छेदकतावच्छेदकतानां सामानाधिकरण्यं प्रकारतायां पृथक् पृथक् निवेश्योपस्थितीनां कारणत्वं पृथगेव वक्तव्यम् । तथा च परस्परजन्यबोधे व्यभिचारवारणाय कार्य्यतावच्छेदककोटौ तत्तदुपस्थित्यानन्तर्य्यं निवेशनीयम् । तथा च कस्यापि कार्य्यतावच्छेदकस्य धम्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबुद्धित्वं प्रति व्यापकताया अभावेन धम्मितावच्छेदकतासम्बन्धेन तद्धर्मावच्छिन्नकार्ये तत्तद्धर्म्मावच्छिन्नकार्योत्पादकसामग्या अनपेक्षणादनुपस्थितिदशायां द्रव्यत्वे निरुक्तसम्बन्धेन निरुक्तशाब्दबोधापत्ति तादवस्थ्यमेवेति चेत् — प्रत्रोच्यते । प्रकारतासम्बन्धेन शाब्दबुद्धित्वं प्रति तत्तदानन्तर्य्यघटितत्तत्तद्धर्म्मस्य व्याप्यतया व्यापकधर्मावच्छिन्ने कार्यो जननीये व्याप्यधर्म्माविच्छिन्नकाय्र्योत्पादकसामग्र्या अपेक्षणात् । प्रकारतासम्बन्धेन शाब्दबोधे तादृशोपस्थितीनामपेक्षा धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे च व्यापकसामग्रीविधया तादृशोपस्थितीनामपेक्षेति नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधोपपत्तिरिति दिक् ।
न च विशेष्यतावच्छेदकतामात्रस्योपस्थितिनिष्ठकारणतावच्छेदकसं