________________
प्रथमा ]
८६
मयुक्तम् । तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इति वाच्यम् । स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यताव
च्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितेर्हेतुतां स्वीकृत्य तादृशा
जयाऽलङ्कृतः
दोषवारणोपायमाह—–स्वजनकज्ञानीयेत्यादिना । स्वमुपस्थितिस्तज्जनकं ज्ञानं प्रमेयः प्रमेयपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावानित्याकारकन्तदीया वृत्तिनिष्ठा प्रकारता विशेष्यता निष्ठा तन्नि रूपिता विशेष्यता प्रमेये तदवच्छेदकता प्रमेयत्वे सामानाधिकरण्येन तद्वैशिष्ट्यं प्रमेयत्वनिष्ठायामेवोपस्थितीयप्रकारतायां न तद्बोधकान्तराद्भासम्रानद्रव्यत्वनिष्ठायान्तस्यामिति न तदानीं द्रव्यत्वे शाब्दबोधः प्रकारतासम्बन्धेन, तत्र निरुक्तप्रकारतासम्बन्धेनोपस्थितेरभावादिति भावः । कक प्रमेयत्वादिप्रकारकोपस्थितिजनकानि वृत्तिज्ञानानि प्रमेयः प्रमेयपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावान् । स्वजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतासम्बन्धेन प्रमेयः प्रमेयपदवान् । प्रमेय
पदं प्रमेयत्वावच्छिन्नविषयताकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यताचत् । स्वविषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतासम्बन्धेन प्रमेयपदं प्रमेयविशिष्टमित्याकारकम् । एवं वृत्तित्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया शक्तित्वेन लक्षणात्वेन शक्तिलक्षणयोः पृथक् प्रवेश आवश्यकस्तथा च प्रमेयः पटपदशक्यसम्बन्धीत्याकारकं स्वशक्यसम्बन्धित्वसम्बन्धेन प्रमेयः पटपदवान् इत्याकारकं प्रमेयसम्बन्धि शक्तं घटपदं स्वसम्बन्धिशक्तत्वसम्बन्धेन पटपदं प्रमेयविशिष्टमित्याकारकञ्च । तेषु प्रद्यज्ञानजन्योपस्थितीयप्रकारता या प्रमेयत्वनिष्ठा तत्र तदुपस्थितिजनकज्ञानीयनिरुक्तविशेष्यतारूपवृत्तिनिष्ठप्रकारतानिरूपितप्रमेयनिष्ठाविशेष्यतावच्छेद
कता वैशिष्ट्यसत्त्वेऽपि ज्ञानान्तरजन्योपस्थितीयप्रमेयत्वनिष्ठप्रकारतायां निरुक्तावच्छेदकतासामानाधिकरम्पविरहात् तत्तज्ज्ञानजन्योपस्थितिदशायां