SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः [ कारके दकतासम्बन्धेन शाब्दबोधापत्तेरयोगात् । न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्नविशेष्यको ८८ पस्थितावेव उद्बोधकान्तरात् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयकशाब्दापत्तिवारणाय तद्धर्मावच्छिन्नविषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनैव पदार्थोपस्थितेर्हेतुता वाच्या । तथा च प्रकारविशेषनिवेशस्यावश्यकत्वे विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पन शाब्दबुद्धित्वं द्रव्यत्वावच्छिन्नविशेष्यता कशाब्दबुद्धित्वसमनियतन्ततश्च समनियतधर्म्मावच्छिन्ने कार्य्यो जननीये समनियतधर्म्मावच्छिन्न कार्य्योत्पादकसामग्याः पूर्वोक्तरीत्या अपेक्षिततया द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधकारणीभूतनिरुक्ताकाङ्क्षाज्ञानस्यापेक्षिततया तदभावेनापत्त्यभावात् । न चैवं रीत्या आपत्तिवारणे अनुपस्थितिदशायामप्यनयैव रीत्या वारणसम्भवात् । समानप्रकारताप्रत्यासत्त्योपस्थितेः कारणत्वाश्रयणं ग्रन्थकृतामसङ्गतमिति वाच्यम् । आत्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेः कारणत्वापेक्षया विषयनिष्ठप्रत्यासत्त्या कारणत्वे लाघवात् । लघुभूतोपायेनापत्तिवारणसम्भवे गुरुभूतमार्गानुसरणस्यायुक्तत्वात् । विषयनिष्ठप्रत्यासत्त्या आकाङ्क्षाज्ञानस्य कारणत्वन्न सम्भवति । इत्यात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावः । उपस्थितेश्च सम्भवतीति तथैवाश्रितः । प्रकारतासम्बन्धेनोपस्थितेः कारणत्वे दोषमाहन च यत्र प्रमेयत्वाद्यवच्छिन्न विशेष्यक वृत्तिज्ञानेत्यादिना । उद्बोधकान्तरात् द्रव्ये चक्षुः सन्निकर्षादेरित्यर्थः । हेतुताकल्पनमयुक्तमिति । अनन्तप्रकारीभूतद्रव्यत्वादीनां कार्य्यतावच्छेदके कारणतावच्छेदके च प्रवेशेन यद्यप्यात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावे साम्यमेव तथाऽपि तत्पुरुषीयत्वनिवेशेन गौरवादित्यर्थः । समय कि A
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy