________________
८७
प्रथमा ]
जयाऽलङ्कृतः म्बन्धेन तद्धर्मावच्छिनकार्योत्पादकसामग्य अपि तेन सम्बन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तावपेक्षिततथा प्रकारतासम्बन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यसत्त्वे तत्र तद्धर्मितावच्छे
घटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नं धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे अन्यसमवेतयोग्यताज्ञानादन्यसमवेतशाब्दबोधापत्तिवारणाय तत्पुरुषीयनिरुक्तशाब्दबोधे तत्पुरुषीयनिरुक्तयोग्यताज्ञानं कारणमित्यस्य वक्तव्यतया पुरुषभेदेन कार्यकारणभावानन्त्यं विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावेऽपि तुल्यमित्यात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावोपेक्षायां न मानमिति चेत् । सुन्दरो घटः सुन्दरः पुरुष इत्यादिशाब्दबोधं प्रति घटत्वाद्यचेतनधर्माणामनन्तानां पुरुषत्वादिचेतनधर्माणामनन्तानां निवेशेन कारणत्वे यावान कार्यकारणभावस्ततोऽर्द्ध एव पुरुषभेदभिन्नः कार्यकारणभावो विषयनिष्ठप्रत्यासत्त्येति लाघवात् । न च द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य प्रकारतासम्बन्धेन द्रव्यपदजन्योपस्थितेश्च सत्त्वात् घटस्य द्रव्यमित्यादावपि द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन घटाभेदान्वयापत्तिः । न च प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तद्रव्यपदत्वादिरूपाकाङ्क्षाज्ञानविरहान्नापत्तिरिति वाच्यम् । घटः प्रमेय इत्यादौ तादृशाकाङ्क्षाज्ञानाभावेऽपि म्मितावच्छेदकताप्रकारतासम्बन्धाभ्यां प्रमेयत्वे योग्यताज्ञानोपस्थितिभ्यां धम्मितावच्छेदकतासम्बन्धेन घटाभेदान्वयोत्पत्त्या तादृशाकाङ्क्षाज्ञानविरहस्य धम्मतावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तावकिञ्चित्करत्वादिति वाच्यम् । आकाङ्क्षाज्ञानीयमात्मनिष्ठप्रत्यासत्त्या कार्य्यतावच्छेदकं ...यत् द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वं तद्घटकत्वस्य द्रव्यत्वनिष्ठाया धम्मितावच्छेदकतायास्सत्त्वेन द्रव्यत्ववृत्तिम्मितावच्छेदकतासम्बन्धेन जायमान