________________
८६
व्युत्पत्तिवादः
[ कारके
यां प्रमेयत्वादौ धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य फलजनकत्वात्तादृशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिञ्चित्करत्वादिति वाच्यम् । समानप्रकारता' प्रत्यासत्त्या पदार्थोपस्थिते: शाब्दबोधे हेतुत्वोपगमात् । येन सम्बन्धेन यद्धर्मावच्छिन्नकार्यं प्रति येन सम्बन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकता तेन स
"
विषयनिष्ठप्रत्यासत्त्या कार्य्यकारणभावो न वक्तव्य इति भावः । विषयनिष्ठप्रत्यासत्त्या कार्य्यकारणभाववादी समाधत्ते -- समानप्रकार तेत्यादिना । प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमिति कार्य्यकारणभावः । न च धम्मितावच्छेदकतायाः (प्रकारतायाः) प्रकारतानात्मकतया तेन सम्बन्धेन शाब्दबोधे तावतापि किमायातमित्याह — येन सम्बन्धेन यद्धर्मावच्छिन्नकाय्यं प्रतीत्यादि । तथा च धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकत्वात् । तत्सामग्र्याः प्रकारतासम्बन्धेनोपस्थितिघटितायाः धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधेऽपेक्षणात्तदभावेन नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधः । न च सुन्दरो घटो नील इत्यादौ सुन्दररूपपदार्थे प्रकारतासम्बन्धेनोपस्थित्यभावात् कथं धम्मितावच्छेदकतासम्बन्धेन शाब्दबोध इति वाच्यम् । निरवच्छिन्नर्धाम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे एव तत्सामग्न्या अपेक्षणात् । प्रकृते च सुन्दरत्वावच्छिन्नायास्तस्यास्सत्वात् ।
अत्रेदं विचार्य्यते । धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्न
'प्रकारतावच्छेदकस्यैक्यात्प्रकारतयोरप्यैक्यमित्याह -- समानप्रकारतेति । सावच्छिन्नविषयतानामवच्छेदकभेदादेव भेदः निरवच्छिन्नविषयताना.न्तु ग्राश्रयभेदाद्भेदः । ज्ञानभेदात्तु नैव विषयता भिद्यते । येनोपस्थितीयशाब्दबोधी भिद्येतामिति विमर्शः ।