________________
प्रथमा ].
जयाऽलङ्कृतः
८५
मिंतावच्छेदकपटत्वाद्यवच्छिन्नप्रकारताकयोग्यताज्ञानबलादेव घट
त्वादौ धर्मितावच्छेदकतासम्बन्धेन तदापत्तेः । +
न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्या हेतुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेऽपि द्रव्यत्वादौ तादृशप्रत्यासत्त्या प्रत्यासन्नयोग्यताज्ञानात्तत्र तादृशप्रत्यासत्त्या शाब्दबोधापचिः । आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वाद्यवच्छिनोपस्थितिमन्तरेणापि तादृशप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशा
घटत्वावच्छिन्नप्रकारताकशाब्दबोधे कार्य्यकारणभावानन्त्यमिति गौरवम् । धम्मितावच्छेदकतासम्बन्धेन प्रभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नं प्रति धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति धम्मितावच्छेदकनिष्ठप्रत्यासत्त्या कार्य्यकारणभावे प्रभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधमाय निरुक्तकार्य्यतावच्छेदकाक्रान्ततया अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रकारताकयोग्यताज्ञानमात्रस्य निरुक्तकारणतावच्छेदकाक्रान्ततया च निरुक्ते नैकविधकार्य्यकारणभावेनैव निर्वाह इति लाघवम् । ततश्च घटत्वे घम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानबलाद्द्रव्यत्व इवाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधापत्तिः । er प्रमेयपदजन्यप्रमेयत्वावच्छिन्नोपस्थितिदशायां द्रव्यत्वावच्छिन्नोपस्थितिमन्तरेणापि धम्मितावच्छेदकतासम्बन्धे, त्वं घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकयोग्यताज्ञानबलात् धम्मितावच्छेदकतासम्बन्धेन प्रभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रकारता कशाब्दबोधो घटः प्रमेय इत्यादौ यथा भवति तथा द्रव्यपदाद्द्रव्यत्वावच्छिन्नोपस्थित्यभावे उक्तसम्बन्धेनोक्तयोग्यताज्ञानबलात् घटो द्रव्यमिति शाब्दबोधापत्तिरित्याह- --न च योग्यताज्ञानस्येत्यादिना । तथा च
.