________________
व्युत्पत्तिवादः
[ कारके
या घटत्वादौ धर्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न सम्भवतीति वाच्यम् । योग्यताज्ञानस्य धर्मितावच्छेदकं निवेश्य तद्भेदेनानन्तकारणताकल्पनमपेक्ष्य लाघवाद्धर्मिता'वच्छेदकतासम्बन्धेन शाब्दबुद्धौ तादृशसम्बन्धेन धमितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात् । घटत्वादिध
८४
ननु घटत्वावच्छिन्न विशेष्यता कशाब्दबुद्धित्वमेव द्रव्यत्वावच्छिन्नोपस्थित्यादिघटितसामग्न्याः कार्य्यतावच्छेदकं कुतो न तथा सति घटत्वनिष्ठाया अपि धम्मितावच्छेदकतायाः स्वीयकार्य्यतावच्छेदकधर्म्मघटकत्वं भविष्यतीति चेत् —न । यद्धर्म्मावच्छिन्नं प्रति यस्याः सामग्या व्याप्यत्वं स एव धर्मस्तत्सामग्याः कार्य्यतावच्छेदकमिति नियमात् द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रत्येव द्रव्यत्वावच्छिन्नोपस्थित्यादिघटितायाः सामग्न्या व्याप्यत्वन्न तु घटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रतीतितादृशशाब्दबुद्धित्वस्य तादृशसामग्री कार्य्यतावच्छेदकत्वासम्भवात् ।. तथा च घटत्वे आपादकाभावान्नापत्तिरिति स्थितम् । इदानीं गौरवेणात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावं विहाय लाघवाद्धम्मितावच्छेदकमनिवेश्य विषयनिष्ठप्रत्यासत्त्या कार्य्यकारणभावमङ्गीकृत्यापत्तिं स्थापयतियोग्यताज्ञानस्य धम्मितावच्छेदकं निवेश्येत्यादिना । समवायसम्बन्धेन
घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकयोग्यताज्ञानं कारणमित्यात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावे धम्मितावच्छेदकभेदेन केवल
'तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपितेति शेषः । तेन घटे द्रव्यमिति योग्यताज्ञानात् पटप्रकारकशाब्दबोधस्य नापत्तिरिति दिक् ।