________________
प्रथमा ] जयाऽलङ्कृतः
६६ वच्छिन्नप्रकारताघटितसम्बन्धस्य विवक्षणात् तेन सम्बन्धेनोक्तप्रकारताया द्वित्व एव वृत्तेः।
ननु जातित्वावच्छिन्नघटत्वनिष्ठप्रकारतावच्छेदकताको यो घटस्स इत्यत्राभेदान्वयबोधस्तदीयप्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपाप्त्यनुयोगितावच्छेदकं घटत्वगतमेकत्वमेव तद्भेदस्य घटत्वगतैकत्वेऽभावाद्व्यभिचारः। न चावच्छेदकताया निरवच्छिन्नाया एव निवेशेन प्रकृते घटत्वगतावच्छेदकताया जातित्वावच्छिन्नत्वान्न दोष इति वाच्यम् । तर्हि नीलघटत्वावच्छिन्नप्रकारताया अपि निरवच्छिन्नावच्छेदकताया घटत्वे एव सत्त्वे न नीले ततश्च स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकप
र्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वनीलोभयावच्छिन्नप्रकारताया अपि घटत्वगतैकत्ववृत्तित्वात् तद्भेदस्य घटत्वगतैकत्वेऽभावात् घटो नीलघट इति विधेयांशेऽधिकावगाहिशाब्दबोधो न स्यादिति चेत्-अत्रोच्यते।स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वविशिष्टधावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूतावच्छेदकतानिरूपिता पच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेप्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति स्वनिरूपितावच्छेदकतावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपभेदः कारणम् । ततश्च विधेयांशेऽधिकावगाहिनो घटो नीलघट इति बोधस्य घटत्वगतैकत्वे नीलघटत्वोभयगतद्वित्वभेदस्य सत्त्वानानुपपत्तिः । न वा नीलघटो नीलघट इति बोधस्यापत्तिः। नीलघटत्वोभयगतद्वित्वे नीलघटत्वोभयगतद्वित्वभेदाभावात् ।
__ननूद्देश्यांशेऽधिकावगाहिनो नीलघटो घट इति बोधस्यापत्तिस्तत्र विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदके नीलघटत्वोभयगतद्वित्वे प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकघटत्वगतैकत्वभेदस्य सत्त्वादिति चेन्मैवम् । स्वनिरूपिताभेदसम्बन्धावच्छिन्नविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति स्ववि