SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०० व्युत्पत्तिवादः [ कारके शिष्टो भेदः कारणम् । वैशिष्ट्यं स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वस्वनिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिनानुयोगिताकत्वोभयसम्बन्धेन । ततश्च घटत्वगतैकत्वावच्छेदेन नीलघटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वात् । नीलघटत्वोभयगतद्वित्वावच्छेदेन नीलघटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य घटत्वगतैकत्वावच्छिन्नप्रतियोगिताकभेदस्य चासत्त्वात् । विधेयांशेऽधिकावगाहिनः शाब्दबोधस्योपपत्तिरुभयांशे समानावगाहिनः उद्देश्यांशे अधिकावगाहिनश्च नीलघटो घट इत्यस्य नीलघटो नीलघट इत्यस्य चानापत्तिः। वस्तुतस्तु स घट: घटस्स इत्यनयोः पूर्वोक्तयोर्जातित्वावच्छिन्नावच्छेदकताकप्रकारताविशेष्यताकबोधयोरनुपपत्तिः । तत्रैकत्वावच्छेदेनैकत्वावच्छिन्नप्रतियोगिताकघटत्वभेदाभावात् । तदर्थं निरवच्छिन्नावच्छेदकतायाः प्रवेशे विधेयांशेऽधिकावगाहिनोऽप्यनुपपत्तिस्तत्र निरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्य घटत्वगतैकत्वे एव सत्त्वात् ।। __-इदमत्रावधेयम् । स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन किञ्चिन्निष्ठाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितोक्तनिरवच्छिन्नावच्छेदकताघटितसम्बन्धेन किञ्चिनिष्ठविशेष्यता तदवच्छेदकतासम्बन्धः कार्य्यतावच्छेदको वक्तव्यः । कारणञ्च पूर्वोक्त एव । ततश्च न दोष इति । यदि च प्रकारदलमेवोद्देश्य विशेष्यदलञ्च विधेयं विधेयतोद्देश्यतयोः प्रकारताविशेष्यत्वनियतत्वासिद्धेस्तहि अधिकावगाहिविशेष्यकस्यापि शाब्दबोधस्येष्टव्यतया कार्यकारणभावे प्रकारताविशेष्यतास्थाने विधेयतोद्देश्यते निवेशनीये। विधेयतावच्छेदकतोद्देश्यतावच्छेदकते समानसम्बन्धावच्छिन्ने ग्राह्ये । तेन कालिकसम्बन्धेन घटत्वविशिष्टपरतच्छब्दघटितात् स घट इति वाक्यान्न शाब्दबोधापत्तिरिति द्रिक ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy