________________
प्रथमा ] जयाऽलङ्कृतः
१०१ दर्शितरीत्या सोऽप्युपपादनीयः। एवं स स इत्यादिवाक्याजातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेदकताकाभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नाक्च्छेकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शाब्दबोधं प्रति तद्धर्मभेदस्यापि पृथक्कारणत्वं कल्पनीयम्। एवं दण्डवान् दण्डवानित्यादिवाक्यादण्डसंयोगत्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छिनावच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितसंयोगत्वाद्यव
निरवच्छिन्नघटत्वादिनिष्ठावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारताकविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रत्येव घटत्वादिभेदस्य कारणत्वोक्तेर्जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकार तानिरूपितविशेष्यतानिरूपितजातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकशादबोधस्य प्राप्तामापत्ति परिहर्तुमाह-सं स इत्यादिवाक्यादिति । निरवच्छिन्नप्रकारतावच्छेदकत्वविशेष्यतावच्छेदकत्वकाभेदान्वयबोधे यथा प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदापेक्षा तथाऽवच्छिनतादृशावच्छेदकताकाभेदान्वये प्रकारतावच्छेदकतावच्छेदकविशेष्यतावच्छेदकतावच्छेदकयोर्भेदस्य कारणत्वमिति भावः । एवमपि प्रकारतानिरूपितसंयोगनिष्ठावच्छेद तावच्छेदकदण्डस्य विशेष्यतावच्छेदकतावच्छेदकदण्डाद्भेदस्य सत्त्वेन दण्डवान् दण्डवानिति वाक्यात्प्राप्तां शाब्दापत्ति परिहर्तुमाह--दण्डवान् दण्डवानित्यादि । प्रकारतावच्छेदकतावच्छेदकतावच्छेदके विशेष्यतावच्छेदकतावच्छेदकतावच्छेदके भेदस्यापि हेतुत्वं बोध्यम् । प्रमेयत्वेन दण्डत्वस्य यत्र प्रकारतावच्छेदकतावच्छेदकतावच्छेदकत्वं तादृशः दण्डत्वनिष्ठनिरवच्छिन्नस्य विशेष्यतानिरूपितसंय्योगत्वावच्छिन्नावच्छेदकानिरूपितदण्डनिष्ठावच्छेदकतानिरूपितदण्डत्वनिष्ठ